पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

426 (सू) श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १६, सू ४. 1 ★ पुत्रस्य नाम गृजाति तामाशिषमाशासे तन्तव इत्यजातस्य अमुष्मा इति जातस्य ॥३॥ ।। २८ ।। ८०७ ॥ [गार्हपत्यापस्थाने नामग्रहाशासनयोर्विशेषः] (भा) अजातपुत्रो मृतपुत्रोऽपि । तामाशिषमाशास्ते तन्तव इति 2 पुत्रभेदे आवृत्ति ॥ (सू) ज्योतिषे तन्तवे त्वाऽसावनु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि दिव्याद्धाम्नो मा छित्सि मा मानुषादिति प्रियस्य पुत्रस्य नाम गृह्णाति ॥ ४ ॥ २९ ।। ८०८ ॥ [भाष्यदर्शितविशेष विवरणम् ] 3 (वृ), अजा - त्रोऽपि - तन्तव इत्यजातस्येत्यजातग्रहणम् । अमुष्मै ज्योतिष्मतीमिति 3 प्रतिपक्षमात्रतया पुत्राभावमात्रपरत्वान्मृतपुत्रस्याप्युप- लक्षणम् । अत उभयोस्तामाशिषमाशास इति ॥ 1 द्वे एते यजुषी जाताजातयो पुत्रयोर्नामग्रहणार्थे । तयो प्रथमेन प्रथमं अजातपुत्रस्य नाम गृह्णाति तन्तव इति परोक्षनाम्ना । तच्च तज्जन्मार्थम् । अथ द्वितीयेन यजुषा जातस्य नाम गृह्णाति अमुष्मा इति तदीयनाम्ना । तच्च तत्समृद्धयर्थम् । तेन जातस्यापि मृतस्य पुत्रस्य न नाम गृह्णाति । तदेवं पुत्रवतो नामग्रहणद्वय भवति । अपुत्रस्य तु प्रथममेव द्वितीयस्यासभवात् । पुत्रवतोऽपि द्वितीयमेव न प्रथम मिति केचित् तदयुक्तम्, तन्तव इत्यजातस्येत्यविशेषोक्त भविष्यत्पुत्रार्थं पुत्रवतोऽपि तदनिवारणात् । अजातपुत्रस्येत्यवचनाच्च । बोधायनेन समुञ्चयोक्तेश्च । बहुपुत्र- त्वे तु स्वस्थानविवृद्धया नाम्ना ग्रहणम् । न त्वभ्यासवृत्त्या सत्याषाढेन तथोक्त । अकृतनाम्नस्तु नक्षत्रनाम ग्राह्यम् । नैवग्राय पुत्र्या, पुत्रस्येति वचनात् (रु). 2 जीवत्पुत्रभेदे (मु. पु) 3 प्रतिपुत्र (मु. रा ). → ,