पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

428 (सू) 1 वेदमुपस्थ आघायान्तवेंद्यासीनोऽतिमोक्षान् जपति ॥ ९ ॥ ३४ ।। ८१३ ।। [वेदाधानस्यावश्यानुष्ठेयता] 1 (भा) स्तीर्णेऽपि वेदे उपस्थ आधानं न निवर्तते । वेदतृणान्युपस्थ आघायेति हिरण्यकेशिमतात् ॥ 2 (सू) अत्र वेदस्तरणं यजमानभागस्य च प्राशनमेके समामनन्ति ॥ १० ॥ ३५ ॥ ८१४ ।। [सुत्रदर्शितस्तरणप्राशनैककाल्यानुगुण्यम् ] वेदस्तरणंयजमानभागप्राशने अन्योऽन्यसबन्धे ॥ कस्त्वा युनक्तिस त्वा विमुञ्चत्विति यज्ञं विमुञ्चति ॥ ११ ॥ ३६ ।। ८१५ ॥ [यज्ञविमोक्षस्वरूपे पक्षभेदः] (भा) यज्ञविमोको मन्त्रेणैव । कचित्त्ववेक्षन्ते विहार योगे तथा दृष्टत्वात् || (भा) (सू) श्रीरामाग्निचिद्वृत्तिसाहतधूर्तस्वामिभाष्यभूषिते [ ख १६, सू. ११ 3 [भाष्यदर्शित संबन्धविशदनेनैककाल्योपपत्तिः] (वृ) वेदस्तरण - संबन्धे -- अत्र वा वेदस्तरण यजमानभागस्य च प्राशनमित्यस्मिन् कालेऽनुष्ठानपक्षे उभय सहैव कर्तव्यम् । नान्यतरस्य कालान्तरेऽ तरेऽनुष्ठानम् । अत्र वा यजमानभाग प्राश्नीयादित्यत्र वाशब्द- ग्रहणात् || - यज्ञविमोको मन्त्रेणैव – स त्वा विमुञ्चत्विति मन्त्रोच्चारणेनैव विमोक ॥ 1 वेदाधानमुपरिष्टाद्वैदस्तरणपक्षाश्रयणनोक्तम् । अन्यत्र स्तीर्णत्वाद्वदस्य । आश्वलायनेन तु पूर्वत्रैव स्तरणमुक्त शेषन्निधायेति । सत्याषाढश्चाह (रु) 2 यदा त्वत्र तदा सह्रैवोभयोरुत्कर्ष. नान्यतरस्य (रु). 8 मन्त्रोच्चारणमेव विमोक (रु).