पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lvu निबन्धनिबन्धनिर्देशरूपैश्शब्दर्गृह्यमाणश्च कोऽसौ ग्रन्थः तत्प्रतिपाद्य इति विशये,- मीमांसारूपः कश्चित्सूत्रनिबन्ध इति शङ्कराचार्यादिदर्शित- निखिलप्रबन्धूसंमत्या निश्चिनुमः । तत्प्रतिपाद्ये विशयाच्च स्वरूपेऽपि स भविष्यति । तथाहि धूर्तस्वामी तावत् दीक्षणीयाग्निधारणादियज्ञसंबन्धिकर्मविषय- प्रमाणोदाहरणतया सङ्कर्षग्रन्थपरित्राही । श्रीशङ्कराचार्या श्रीभाष्यकाराश्च देवतापृथक्तहेतुकप्रदान- दृष्टान्तेन स्वाभिमतार्थसाधनाय तदुदाहरन्ति; इत्थं च ब्रह्मसूत्र भाष्यकृतोः देवताभेदादिनिरूपणपरत्वाभिप्रायकस्तत्परिग्रह इति सिद्धम् । ८ 'सङ्कर्षकाण्डमुपेक्ष्य शवरस्वामिना भाष्यं कृतम्' इत्येतदनन्त- रम् तथा देवताकाण्डस्येत्यादिप्रपञ्चहृदयवाक्यस्य च सङ्कर्षव्यप- देशमुल्लङ्घन्ध देवताकाण्डं व्यपदिशतो सङ्कर्षादन्यदेव किमपि सूत्र- बृन्दं विवक्षितं स्यादिति प्रतीयते, तस्य च भाष्यकारस्सङ्कर्षण इति च । सङ्कर्षपदस्य देवताकाण्डपरता प्रकटार्थ रत्नप्रभानन्दगिरि- व्याख्याभ्योऽवगम्यते । इसमेवार्थ श्रीमन्निगमान्तगुरवोऽपि शतदूषण्याम् (४ वादे), - 'देवताकाण्डं च कर्मकाण्डशेषतया श्रीभाष्यकारैः परिगृहीतम् । तदुक्तं सङ्घर्षे इति हि तत्सूत्राण्युदाहरन्ति' इति निर्दिशन्ति । वेदान्त- दीपे 'तदुक्तं संकर्षे' इति निर्देशात्संकर्ष इति देवताकाण्डे व्यवहारोऽपि श्रीभाष्यकारसंमत इत्याशयः । कर्मदेवता ब्रह्मगोचरा सा त्रिधोद्वभौ सूत्रकारतः । जैमिनेर्मुनेः काशकृत्स्नतो बादरायणादित्यतः क्रमात् ॥ (तत्वरत्नाकरे ) इति भट्टपराशरपादानां सूक्तिरिहानुसंहिता |