पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

438 श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख ११, सू ५. अथोर्ध्वस्तिष्ठन् ब्रह्मन् सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्रथ' दशहोतारं व्याख्याय व्याहृतीच जपित्वा त्रिहिकृत्योत्तमेन हिंकारेणार्धर्चसुप- सन्दधाति ॥ ५ ॥ 3

  • अवस्थानमुभयत्रापि ॥

2 (भा) (मा) | ब्रह्मामन्त्रणं प्रैषपूर्व हुंकारनिवृत्तिश्च हिंकारे स्वरश्च] अध्वर्युणा प्रेषितो ब्रह्माणमामन्त्रयते। हिंकृत्येतिवचनाद्धिंकार एव कर्तव्यो न हुंकार इति । स च तेन समानार्थः । तेन समान- ग्रहणात् । 4 [भाष्यस्थोभयपदार्थव्याख्याभेदः] (वृ) अवस्थामसुभयत्रापीति – उभयस्मिन्नपि पक्षे विष्णो स्थाने तिष्ठामीत्यवस्थानम् । अथवा अन्तर्वेदि दक्षिण पादो बहिर्वेदि सव्य इत्यनेन प्रकारेणोभयत्र देशेऽवस्थानम् || [प्रैषादिक्रमिक प्रयोगस्य सूत्रसिद्धत्वम् ] अध्वर्युणा-यते – समिध्यमानाया नुब्रूहीति प्रैषोत्तरकाल सामि- धेनीरनुवक्ष्यामोत्यामन्त्रणस्य युक्तत्वात् होतृषदन' कल्पनानन्तर मयि गृह्णामीत्यवस्थानान्तं कर्तव्यम् | सामिषेनीभ्यः प्रतिपद्यत इति सूत्र- कारारम्भसामर्थ्यादित्युक्तम् ॥ हिंकृत्येति कार इति – अश्वलायनेनोक्ताभिहिंकारो न भवति ॥ 1 ‘ प्रजापतेनुब्रूहि+घेहि । ओमनुब्रूहि ' इतितेन प्रसुत (प्रयो -चा) 2 तृती- येन हिंशब्देन प्रवोवाजा इत्यादि ऋच आह अद्यान्त्येत्रि. 3 वेदिश्रोण्यो पुरस्तात् तिष्ठन् इति प्रयोगवाक्यम् 4 समानार्थमतेन ग 5 प्रकल्पानन्तरम्-घ