पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lvin एवंविधप्रमाणोपदेशादित एव च आचार्यश्रीमेघनादारि- सूरिमिरप्यनुगृहीतं नयप्रकाशिकायाम् । 'द्वादशलक्षण्याः कर्म- विषयत्वमुपाधिः । अनन्तरचतुर्लक्षण्या देवताविषयत्वं ' इति । तत्त्वटीकायाम्, ,–'तर्किते कर्मणि संकर्षकाण्डे चतुर्लक्षण्या तत्तदाराध्यदेवतैव स्वरूपभेदगुणप्रकर्षैर्निष्कृप्यते ' इति निगमान्त- गुरुभिरपि । तत्र च प्रत्यध्यायं विषया अपि स्वरूपादयो निर्दिष्टा अव्याचार्यैः । संकर्षपदस्य देवताकाण्डपरत्वे व्युत्पत्तिस्तु दर्शिता आनन्द- गिरिभिः- 'संकृष्यते कर्मकाण्डस्थमेवावशिष्टं कर्म संक्षिप्योच्यत इति संकर्षो देवताकण्डम्' इति । एतदनुसार्येव ब्रह्मविद्याभरण- ग्रन्थः । एवं च संकर्षपदेन देवताकाण्डमिति प्रसिद्धमेव सूत्रबृन्द जिवृक्षितं भाष्यकृद्भिरिति तड्याख्यात्रैककण्ठ्यसिद्धं भवति । देवताकाण्डव्यपदेशप्रसिद्धस्य सूत्रनिबन्धस्य व्याख्याप्रसिद्धि- मूलकप्रसिद्धया तन्नाम्मैव व्यवहारः प्रासिध्यदिति सङ्कर्षपदेन देवताकाण्डव्यपदेष्ट्रभाष्यकृदाशयः प्रपञ्चहृदयाशयश्च पर्यवस्यति । भाष्यव्याख्यासु च देवताकाण्डसंकर्षयोरैक्यमेव स्पष्टप पाद्यते । कर्मदेवताब्रह्म गोचरेत्यादिभट्टपराशरसूक्तिः आचार्यमेघना- दारिसूरिसूक्तिः श्रीमदागमान्तगुरुसूक्तिश्च मीमांसायाः काण्डत्रय- मेव प्रकाशयति । 'त्रिधोद्वभौ' इति (तत्वर); 'अनन्तरचतुर्लक्षण्या देवताविषयत्वम् ' इति ( नयप्रकाशिका) सङ्कर्षकाण्डे इत्यादि ( तत्त्व- टीका) मीमांसायां त्रिकाण्ड्यां (अधि-सा) इत्येव हि तेषां सूक्तिः । तत्राचार्यश्रीमेघनादारिसूरिश्रीनिगमान्तसृरिभ्यां तु तस्य देवताकाण्डस्य स्वकालेऽप्रचार एवोक्तः 'संकर्षकाण्डस्तु न मया दृष्टचर: ' इति (नयप्रकाशिकायां २३८ पृ.) " ८ मध्यः काण्डस्तु लुप्तस्थितिः इति (मीमांसापादुका ३६ श्लो. ) च । लब्धिविषयक आनन्दगिरिटीकामूलकविमतिक्षोभादिसद्भाव- वात्र व्यज्यते ।