पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४, सू ४.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटलः 483 1 (भा) यावन्मन्यते इयदष्टौ विक्रामाः इयद्दादशेति चक्षुर्मानम् । चतुर्विंशत्यादि च सर्वेषाम् । यस्मादविशेषेण श्रूयते पुरुषविशेषमन- पेक्ष्य। अपरिमितं – असङ्ख्यातम् । अर्वाक् परतश्च प्राप्त 2 तस्मा- नातिदूरमाधेय इति । तस्माद्विहितान्नातिदूरम् – असत्यपि परिमाणे अनतिदूरम् । असत्यपि परिमाणे अतिदूरप्रतिषेधादर्वागपि लभ्यते विहि- तात् । केचित्परतोऽपि लभ्यते । तेषा लोकप्रसिद्धमतिदूरम् || [चक्षुर्मितपरिग्रहेमानम्] - आदधीत (ट) यावन्मन्यते - दशेति — अस्यार्थः – चक्षुर्निमित इयवादश विक्रामा इत्यस्य प्रदर्शनार्थत्वात्सर्वसङ्ख्यासु चक्षुर्मान सम्बध्यते ॥ [सर्वादिशब्दार्थः] चक्षुर्मानं सर्वेषाम् – वर्णानाम् । तस्मात् - विहितात् – चतुर्विंशत्यादेः असत्यपिपरिमाणे - दूरस्थपरिमाणाभावेऽपि ॥ अनतिदूर - विहितादिति – 'अतिदूरप्रतिषेधात् द्वादशविक्रा- मादीनां च विहितत्वात् ततोऽप्यतिदूरप्रतिषेध अपरिमितं 4 । चतुर्विंशतेः प्रागपि । एतदुक्त भवति – चक्षुर्मानमपारमितं सर्व- सङ्ख्यास्वतिदूरवर्जितदेशान्तरविधानार्था विति ॥ केचित्परतोऽपि लभ्यते--चतुर्विंशतेः ।। [विहितात्पर मानलाभहेतुः] तेषां - मतिदूरम्परावधिनिर्देशाभावात् ।। 1 इयन्त्यष्टौ क इति अष्टौ ग 8 अति प्रतिषेधा-घ. 4 धात्-स्व. ग 6 थादिति - ख - 2 द्विहितादनतिदूरम् - घ 31*