पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४, सू १०.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल (सू) केशश्मञ्जु वपते नखानि निकृन्तते नाति । एवं पत्नी केशवर्जम् ॥ ९ ॥ ३१ ॥ ९२७ ॥ (भा) वपते - वापयते || [दम्पत्योराधानकाले वेषः] (सू) क्षौमे वसानो जायापती अग्निमादधीयाताम् ।। १० ।। ३२ ।। ९२८ ॥ 485 [सभ्यावसचयपदव्युत्पत्तिः क्षेत्रपरिमाणादिनिरूपणस्थलं च] सभायां भवस्सभ्यः आवसथ आवसथ्यः इति वचनात् तयोरप्य- [अन्तरालविषयशुल्पविरोधादिपरिहरः] गारभेदः । एतेषां क्षेत्रपरिमाण विमान च शुल्बोक्ते एव | तत्र यद्यपि गार्हपत्याहवनीययारन्तराले परिमाणान्युक्तानि ; तथाऽपि प्रागपवर्गाण्युदगपवर्गाणि वेति परिभाषोक्तत्वात् प्राग्वोदग्बान्तरालं भवेत् । अतः क्वचित् गार्हपत्यादुदगष्टासु प्रक्रमेषु आहवनीय कुर्यात् । किञ्च अन्तरालस्य कस्मिन्नन्ते गार्हपत्यस्यायतन आहवनीयस्य वेत्यनियमस्स्यात् । यद्यपि तत्रापरेणाहवनीय यजमानमात्र दीर्घ- चतुरश्रमित्यादिलिजैसर्व नियन्तु शक्यते; तथाऽपि प्रयोगवचनत्वात्तेष। लोमभ्योऽघिस्त म्बयर्जुहृत्वेत्यादिवद्वचनसौकर्यात् प्रागपवर्गपक्षाश्रयण- मित्यपि युज्यते || [अत्रत्यभाष्याशयः वैखानसोक्तेराशयश्च] अतस्तमस्तसन्देह निवृत्तर्थं तस्यायेण मध्यम वशं गार्हपत्या- यतन भवति । तस्मात्प्राचीनमष्टासु प्रक्रमष्वग्रेणाहवनयिायतन इत्येतमर्थं विधातुमत्र पुनरुच्यते । शुल्बे त्वामयायिक एव विहरे एतावदन्तर न दर्शिके इति वक्तु सस्थानादि विखनसोक्त तत्र द्रष्टव्यम् । 4 1 वापयते वा-ग. 2 स्नात्वा क्षौम वसीयाताम् । न च ते प्रागाधानात् जह्या- तामिति भाव । भरद्वाजस्त्वाह पुरस्ताद्ब्राह्मौदनिकात् परिधीयातामित्येक पुरस्ता- संभारनिवपनादित्यपरिमिति (रु). 3 यां सभ्य - घ 4 श्रुत्याग्न्याधेयिक्-घ.