पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

490 श्रीराम तिचिद्वृत्ति सहितधूर्तस्वामिभाष्यभूषिते [खं ५, सू १. (स) ब्रह्मौदनं ' चतुश्शरावं निर्वपति ॥ १ ॥ ३८ ॥ ।। ९३४ ॥ [चर्मणि विशेष:] (भा) शकटवाहिनश्चर्म ॥ पाजक:- 'पटलक । ब्राह्मणेभ्य ओदन ब्रह्मभ्यो वा प्राणेभ्य ओदनम् । ब्रह्मणे प्राणाय जुष्टमिति लिङ्गात् || [ ब्रह्मौदनपदस्य कर्मनामधेयत्वपक्षः अन्यपक्षश्च] कर्मनाम ब्रह्मौदनशब्दः । अतो यत्र परिसख्या नास्ति तत्र सर्वो विधिस्समिद्वर्जम् । यथा द्वादश ब्रह्मौदनान् सस्थिते निर्वपेदिति । [चर्मणि विशेषग्राहकम् ] अनश्शकटम् || (वृ) शकटवाहिनश्चर्मेति – आनडुहशब्दार्थः । अनोवहनादनढान् । [ब्रह्मौदनशब्दप्रवृत्तिनिमित्तम् ] ब्राह्मणेभ्य - सौदनशब्द इति – ब्राह्मणानां भोजने सघर्मक पाक पूर्व के ब्रह्मौदनशब्दो वर्तते ॥ [कर्मनामधेयत्वफलविवरणम् ] अतोयत्र द्वर्जम् – यथा 'द्वादशब्रह्मौदनान् सऽस्थिते निर्वपेत् इति श्व आघास्यमान ' इति च । यत्र परिसख्यास्ति यथा ' यदाज्य- मुच्छिष्येत तस्मिन् ब्रह्मौदन पचति' इत्यादिषु ब्रह्मौदनपाकादिप्रकारान्त- रोपदेशेन धर्मान्तरपरिसख्या यत्र तत्र यावदुक्तधर्मको ब्रह्मौदनः । अन्यत्र द्वादश ब्रह्मौदनान् सस्थिते श्व आघास्यमान पुनर्ब्रह्मौदनं पचतीत्यादौ । तत्रोक्तस्सर्वविधिः । समिंदर्जम् - चित्रियसमिद्वर्जम्, 1 ब्राह्मणेभ्य प्राणेभ्यो ओदन ब्रह्मौदन वा ब्राह्मणे प्राणायेति लिङ्गात् (रु). - 2 चतुर्भिश्शरावै परिमितान् व्रीहन् ियवान्वा निर्वपति । ब्रह्मौदनशब्द कर्मनाम । एतेन अन्यत्रापि ब्रह्मौदनचोदनासु नाम्ना धर्मातिदेशस्सिद्धो भवति । भवति चात्र लिङ्गम् तस्मिन् ब्रह्मौदन पक्ता चतुरोब्राह्मणान् भोजयेत् शत्रुश्शराव वौदनमिति (रु) पडलक. -घ. 4 भोजनेन - ख. 3