पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lxiii अत्रेदं चिन्तयामः--सङ्कर्षकाण्ड नाम भास्करदीक्षितव्याख्या- युतं मुद्रापितं प्रचरति । तत्र च सुबहून्येव किं बहुना सर्वाण्येव सूत्राण्यपरिपूर्णानुपूर्वीणि दृश्यन्ते । योऽग्निम् १३-७ अभितः १३-१० ऎन्द्रम् १३-२-५, उत्तरस्मिन् ११ तेषाम्, १३-४-१९ गणेषु १४-१-१९, उदिते १५-१-४, यस्यै १६-४-६ इत्यादिरूप एव हि तत्र सूत्रपरिग्रहो दृश्यते । तद्व्याख्यायां च विशदबह्वर्थपुरस्कृतो वाक्या- र्थः प्रदर्श्यते । तावन्तं चार्थ प्रतिसूत्रं विनाऽप्याक्षेपाध्याहारादिशेष- पूरकपरिकर सूत्रसूचितं न संमन्यते कोऽपि दार्शनिकः । न च लवशोऽप्यवलम्बनं विना स्वकपोलकल्पितैरुपपन्नानेकार्थ- घटितैर्वाक्यार्थैरयं सूत्रार्थ इत्यारोप्यमाणैः कश्चिन्निबन्धा भवितु- मर्हति । नवा तथाविधं निबन्धं प्रामाणिका बहुमन्वते । अतः सूत्रप्रतीकमात्रग्रहणेन व्याख्यानं वा, समग्रसूत्रलेखन- पूर्वकव्याख्या लेखनश्रद्धावैकल्येन प्रतीकमात्रप्रदर्शनपूर्वकं व्याख्या- लेखनं वा, समग्रसूत्रपाठदौर्लभ्यदशाकृतं वा तथाविधैकदेशमात्रो- पलम्भं सभावयामः । तदिदं शङ्करभाष्यटीकाव्याख्यायां अप्पदीक्षितीयपरिमलग्रन्थे सङ्कर्षकाण्डीयकतिपयसमग्रसूत्र प्रदर्शनात् । श्रुतप्रकाशिकाया व्याख्यायां भावप्रकाशिकायाम, - 'नाना वा देवतापृथक्कात्' इति प्रतीकमुपादाय 'तेषां पृथक्प्रदा- नमवदानैक्यात्' इति सूत्रेण अवदानवत्प्रदानमपि युगपदेव कार्य- मिति पूर्वपक्षः, तत्रेदं सिद्धान्तसूत्रम् 'नाना वा देवतापृथक्वात् ' इति सूत्रपरिग्रहेण रङ्गरामानुजमुनिभिः पूर्वपक्षसिद्धान्तयोर्विवर णाञ्च निर्णीयते । अतो विरलप्रचारतया कैश्चिदनुपलब्ध एव काप्यसमग्रोप- लब्धश्वासीत्सङ्कर्षकाण्ड इति समुचितैव संभावनेति । एतन्मुद्रणपरिकरभूताः कोशाः, रामाण्डारवृत्तियुतधूर्त स्वामिभाष्यभूषितस्याप स्तम्बीय श्रौत -- सूत्रस्य १–५ प्रश्नान्तभागरूपप्रथमसंपुटस्य मुद्रणे परिशोधनाया- वलम्बिता आदर्शा