पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतत्कोशागारे सङ्गृहीताः- 3 I सूत्रपाठे, – 2299, 2682, 3758, 4451, नं तालपत्र कोशा "कागदमयाः A 129, C 1112, C 2059 B 11-12, C 1369, 2328, 2690, III भाष्यवृत्त्योः ; – 160, 1128, 2280, 1346. II भाष्ये, - "} lxiv 39 -- 23 " " 39 तालपत्रमयौ 77 92 " A 361, A 519, C 1371, " कागदमयाः १ मद्रपुरादानीतः कागदमयः कोशः ङ संशया परिगृहीतः क्वचित्संवाचनायाद्रियत । क्वचिद्विषये अहोबलसूरिविरचिता श्रौतसूत्रवृत्तिरपि भाष्य- वृत्त्यनुसारिणी समाद्रियत । एवमेतेषां सूत्रभाष्यवृत्तिकोशानामवलम्वनेन आदितः पञ्च- प्रश्नीभागमुद्रणं निरवाक्ष्म | अत्र च प्रेक्षावतां सौकर्याय प्रतिपृष्ठं खण्डसूत्रयोस्सङ्ख्या अपि न्यवेशयाम | भाष्यवृत्त्यो प्रतिविषयं शिरोलेखं च जिघृक्षितवाक्यार्थधारणसौकर्याय न्यवीविशाम । आपस्तम्बीयश्रौतसूत्राणां रुद्रदत्तवृत्तेर्मुद्रिताया दुर्लभतया प्रति- सूत्रं तत्रत्य विषयान् प्रायष्टिप्पणे प्रादर्शयाम । तत्र च सीसकाक्षरयोजकानां तच्छोधकस्य मम च मानुष- दुर्वारेणानवधानेन संभावितान् दोषान् क्षाम्यन्तः दुर्लभतमपरमोप कारिनिबन्धप्रचारकृतसंमोदा अनुगृह्णन्तु सन्तः । देवो वर्षतु संपदस्तु जगतां जागर्तु धर्मश्विरं लोकास्सन्तु दृढं स्वधर्मनिरताः श्रीचामराजे रताः । आस्तिक्यं प्रथतां चिरं नृपमणेश्श्रीचामराजस्य ताः हृद्यास्संप्रसरन्तु दिग्गजशिरोभूषायिताः कीर्तयः ॥ इत्यावेदयति, सो. नरसिंहाचार्य:, महिशूरपुरीप्राच्यकोशागारपण्डितः.