पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

520 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १२, सू १. 1 भृगूणां त्वा देवानां व्रतपते व्रतेनादधामीति 2 भार्गवाणामादध्यात् आकरसां त्वा देवानां व्रत- पते व्रतेनादधामीति यो ब्राह्मण आकरिसस्स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्य- न्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राज्ञः । इन्द्रस्य त्वेन्द्रियेण व्रतपते व्रतेनादधामीति राजन्यस्य मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनादधामीति वैश्वस्य | ऋभूणां त्वा देवानां व्रतपते व्रतेनादधामीति रथकार- स्येति यथर्ष्याधानानि ॥ ८ ॥ ३० ॥१०००। एकादशी खण्डिका ॥ (भा) भृगूणा त्वान्झिरसा इत्यस्मच्छाखोक्तमपि लभ्यते । अनि रसाम् इमे भृगव इत्यन्ता भृगव । अथातोऽङ्गिरसामयास्या इत्यारभ्य आत्रे. । अत्र्यादीनामादित्यानामिति । अभिषिक्तो— राजा । राजन्यः —— क्षत्रियः । (सू) भूर्भुवस्सुवरिति व्याहत्यः भूमिभूति' सर्परा ज्ञियः । धर्मश्शिरस्तदयमग्निः संप्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ वातः प्राणस्तदय- मनिस्संप्रियः पशुभिभुवत् । स्वदितं लोकाय तन- (वृ) भृगूणां - ङ्गिरसां च – भृगूणां त्वाङ्गिरसामित्यविकृतो मन्त्रः समस्तपाठात् । 1 अथ 2 भार्गवस्या - ख - समाख्याभिरुपदिष्टानियथर्ष्याधानादीनि स्वरूपेण दर्शयति (रु). 3 चतस्त्रस्सर्पराज्ञिय इति सत्याषाढ (रू ) .