पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १८, सू २] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने पञ्चमः पटल. (ख) अथ विराक्रमैर्यजमान उपतिष्ठते अथर्व पितुं मे गोपायानं प्राणेन संमितम् । त्वया गुप्ता इषमूर्ज मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वा हर्यपचनम् | नये प्रजां मे गोपाय मूलं लोकस्य संततिम् । आत्मनो हृदयानिर्मितां तां ते परिददाम्यहमिति गार्हपत्यम् । शस्य पशून् मे गोपाय विश्वरूपं धनं वसु । गृहणाां पुष्टिमानन्दं तांस्ते परिददाम्यहमित्याहवनीयम् । सप्रथ सभां मे गोपायेन्द्रियं भूतिवर्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् । अहे बुनिय मन्त्रं मे गोपाय श्रियं च यशसा सह । अहये 549 [ क्वचित्तदनित्यता तद्धेतुश्च] (वृ) प्रायश्चित्ताधाने तु सस्कृतस्य पुनस्संस्कारानपेक्षा । न च देवतात्मनोऽमेर्नाशः । यदेवास्य ज्योतिः परापतित तदेवाबरुन्ध इति ज्योतिष्मतीष्ट्याम् तस्याश्रयभूता 'झिसस्कारावगमात् । आषान- प्रभृति यजमान एवामय ' इति श्रुतेश्च विद्यमानत्वात् ॥ 1 3 4 [ प्रायश्चित्ताधान संस्कार्यम् ] लौकिक ज्योतिर्मात्रमेव परापतितं तदेवान्यदुपयुज्यमान सस्कार- मर्हति । न देवताभिः । करणेऽभ्युदयः । सोऽस्याभीष्टः प्रीतो भवतीति [कश्चिद्धोमोऽग्निसंस्कारः] दर्शनात् । येऽमय इति होमाऽमिसस्कारः इष्टिवत् ॥ 1 तस्यामाश्र - ख. ग. 2 चिस्संसा-ख, ग, + यो भवन्तीति - घ. 8 धानान्तरं -स्व. ग.