पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२, सू. १० ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटलं 575 (भा) होण्यन्नप उपस्पृशेदिति होमे पुनर्विधानात् । अन्येषु तु यज्ञक्रतुषु यक्ष्यमाणो वेष्ट्वा वेत्याद्यन्तयोः ॥ [आधानकल्पभेदन दशहोतृहोमादायझिः उपदेशपक्षश्च] तस्मिन्नेवाश्वपादके दशहोता सग्रहो मनसा हूयते अमा- वास्याधाने नक्षत्राधाने च यत्र सभवोऽजस्राणाम् । 2 सोमाघानेs- प्यमावास्यायां कृते यत्र नाजसाः पूर्यन्ते तत्र तस्मिन्नेवाश्वपदिके दश- होता अग्निहोत्रहोमश्च । उपदेशो मनसा होता ग्रह उपाशु || (ट) होष्यन्न - नादिति – यक्ष्यमाणो वेति कर्मादौ प्राप्तस्य सूत्र- कारेणोत्कृष्य विधानात् नारम्भेऽपामुपस्पर्शनम् || [नक्षत्राधाने दशहोतृहोमे विशेषतद्धेतू ] - - - नक्षत्रा स्राणामिति – नक्षत्राघाने पौर्णमास्या प्राकूद्वादश- रात्रसभवेऽजस्रधारणे प्रणयनासभवात् तस्मिन्नेवाश्वपदिके दशहोता || [सोमाधानेऽप्याश्वपदिक एव दशहोत्रझिहोत्रहोमोपपत्तिः] सोमाधाने - होत्रचेति - अस्यार्थः - सोमाघानेऽप्याधानस्य • सोमानत्वाभावात् स्वतन्त्रकालत्वात् कालापेक्षायां ऋतुनक्षत्रानादरेऽपि ' पर्वकालानादरविधानाभावात् नान्तरीयकत्वात्पर्वकालसबन्धस्य अमा- वास्याया क्रियमाणे सोमाघाने अजस्रधारणप्राप्तेः समाप्तेऽपि सोमे यावद्दादशरात्र मजस्रधारणायोदवसानीयार्थ पृथक्समारोप्य मथित आहवनीये दशहोता अग्निहोत्रहोमश्च ॥ [उपदेशपक्षाशय ] - उपदेशो - उपांशुः – दशहोतार मनसानुद्रुत्येति होतृमात्रस्य मानसत्वविधानात् ग्रहस्य वाक्यान्तरविहितत्वात् याजुर्वेदिकोपांशुत्व- मेवेति ।। 1 नेन-ॐ 2 सोमयागे 3 पर्वानादर