पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २२, सू ८ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने सप्तम पटल ८ (सू) (भा ) 1 2 रीड्यो रीतिरपाम् । त्वं भगो न आहि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देवभूरेरिति याज्यातु- वाक्ये ॥८॥८॥११०९॥ त्रयोविंशी खण्डिका ॥ [सारस्वतहोममन्त्रान्तरे] निवेशनी अमीषोमावित्येतावपि लभ्येते सारस्वतौ ॥ [पाठक्रमवर्तमाननिर्देशादिफलविवरणम] (यू) दर्शपूर्णमासावारप्स्यमान चतुर्होतारं मनसा ऽ नुत्याहवनीये सग्रहं हुत्वा इत्यत्र पाठक्रमोऽद्यतनविभक्ति क्त्वाप्रत्ययोऽथशब्दश्चामी किमर्था. 2 उच्यते-पाठक्रमोन्बारम्भणीयादर्शपूर्णमासयोः चतुर्होतु- र्मध्यपातार्थ । यथा सारस्वतादीनामारम्भार्थत्वाविशेऽपि पाठकमात् सारस्वतहोमोत्तर कालत्वमन्वारम्भणीयाया' | अद्यतनविभक्तया दर्श- पूर्णमाससमानाहः कर्तव्यता प्रत्ययेन समानकर्तृकता ॥ [हुत्वति क्वार्थस्वारस्य विवरणम] अनेन प्रवसन् काले विहाराभिमुखो याजमान जपतीति यजमानप्रवासऽपि पुत्रादिभिर्दर्शपूर्णमासानुष्ठान प्राप्त प्रथमे प्रयोगे निषिध्यते । प्रवास निमित्ता व्रातपती तु व्रतोपायनादूर्ध्वम् । अथशब्दो- ऽर्थकृत्यप्रतिषेधार्थ ॥ । 585 [सारस्वतहोममन्त्रान्तत्वोपपत्तिः] निवेशनी - स्वतौ — विकल्पेन तयोरपि मन्त्रपाठे पठित- वात् पाठानर्थक्य माभूदिति । 1 रथ -ख 2 भगिन इति शेष