पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

594 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 श्वोभूते पौर्णमासेन यजते ॥ १ ॥ १० ॥ ॥ १११९ ॥ [ख २५, सू. १५ , ८ 1 यदेतत् महाप्रकरणेन आधानाद्भिनकालं दर्शपूर्णमासारम्भणमुक्तम् ; यथा पक्षे पावमान्यादीना मिष्टीनामुत्कर्ष । संस्थितासु इष्टिषु आगामिपौर्णमास्यामन्वा- रम्भणीया तत पूर्णमासयाग इति तदमावास्यायामादधानस्य | पूर्णमास्या तु आदधानस्य सद्य एव सहेष्टिभिरन्वारम्भणीयया च अनयाधेगमपवृज्य तदानी- मेवानीनन्वाधाय श्वोभूते पौर्णमासेन यजते । पूर्व पर्वेति पौर्णमास्यत्रोच्यते न तु चतुर्दशी | अन्यथा अमावास्याया पौर्णमास्या वाधेय इत्यनेन भूते पौर्णमासेन यजत इत्यनेन च विरोधात् । चतुर्दश्येव वा पूर्व पर्व चातुर्मास्येपु तथा दर्शनात् । न च पौर्णमास्यामाधेय इत्यनेन विरोध तस्यैव प्रकार विधित्वात् । पूर्णमासेन यजत इत्यस्यच यष्टु प्रतिपद्यत इत्यर्थ । यथोक्त हिरण्यकेशिना 'पौर्णमास्यास्तु पूर्व पर्वण. औपवसभ्येऽहनि अनीनाधाय सेष्टयपवृज्य तदानीमेव चतुर्हेत्रं सारस्वता- वारभणीयाश्च कुरुते खोभूते पौर्णमासी यजत' इति । यत्त अन्यत्तत्राग्निहोत्रा- रम्भार्थं दशहोत्रादि द्वादशाहव्रत च तत्सर्वमुभयचैव भवति अविशेषात् । अन्ये तु व्याचक्षते, – यदेतत् द्वादशाहवत तत् अमावास्यायामादधानस्य न तु पौर्णमास्या- मिति, तदयुक्तम्, महाप्रकरणम व्यगतस्य अनन्तरस्य च तस्य एकस्य एतच्छ ब्देन निष्कृष्य पराम्रष्टुमशक्यत्वात् । तथा इष्ट्रयपवर्गविशिष्टदर्शपूर्णमासारम्भविधा यिनि उत्तरवाक्ये तु शब्देन तत्प्रतियोगिन एव प्रकारस्य अनन्तरोक्तस्य व्यावर्तनी- यत्वाच्च । व्यक्तीकृतं चैतत् हिरण्यकेशिना तेन हि एवमेव पवमानहविरुत्कर्षादि दर्शपूर्णमासारम्भान्त कर्म द्वादशाहव्रतवर्जमाध्वर्यव काण्डेऽभिधायानन्तरमुक्तम्: 'अमावास्यायामादधा नस्यैतत्' इति द्वादशाहवतं तु ततोऽन्यत्र याजमानकाण्डे सामान्यतश्चोदितम् । तद्दूर निवारित एवानयोस्सकर इति । किश्च अत एवाविशेष- वचनात् नक्षत्राधानवचनाच सिद्धनक्षत्राधानेऽप्य भिमत मेवास्यैततद्वमिति । तथा आश्वलायननापि अविशेषेणोक्त 'आवानावादशरात्रमजस्ना' इति । तस्माद्यथोक्त एव युक्तस्सूत्रार्थ । सर्वाणि तु एतानि आरम्भणार्थानि दशहोत्रादीनि द्वितीयाद्याधाना- दिषु नेष्यन्ते;–कस्मात् ? यस्माद्यावज्जीविकस्यापि प्रयोगस्य एक एवारम्भ । तत्र च लिङ्गम् ‘वैश्वानरपार्जन्यापञ्चहोता च नाभ्यावर्तेते एकोपक्रमत्वात्' इति । द्वाद- शाहत्रतमपि या प्रथमामग्निहोत्राय दोग्धीति प्रथमाग्निहोत्र स योंगादारम्भार्थै सह- पठितत्वाच्च प्रथमाधान एवेच्छन्ति (रु). -