पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २८, सू_१३ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने अष्टम पटल 1 (सू.) प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा ।। १२ ।। ६९ ॥ ११६९ ।। 621 (भा) यः प्रजाकाम पशुकामः तस्याप्यामेयौ । यस्य म्रियते प्रजा स प्रजाव्यृ॑द्धः । यस्य पशुर्मियते स पशुन्यृद्ध || 2 (सू)

  • अग्निन्यक्ता पत्नीसंयाजानामृचो भवन्ति ॥

।। १३ ।। ७० ।। ११७० ॥ [पत्नीसंयाजेषु विशेषः] (मा) अभिन्यक्ताः पत्नीसयाजानामृचो भवन्तीति वचनाद्देवताशब्दस्य परोऽग्निशब्दस्तयैव विभक्तया क्षिप्यते । तेन सर्वामेयत्वम् । अतो नाध्वयोर्विकारा' । सोमाझे वृष्णियम् | अमृताय सोमाने दिवि | त्वष्टार. मप्रियम् । देवत्वष्टः अमे विरराण | देवानां पत्नीरभिरुशतीः | देव- । [सर्वाग्नेयत्वे हेतुः] (बृ) अग्रिन्यक्ताः- क्षिप्यते- तेन सर्वानेयत्वम् --अग्रेि न्यक्त- त्वमात्रे॰णर्चाम् || [नाध्वर्योर्विकारा इत्यत्र हेतुः] अतो नार्ध्वयोर्विकाराः -- तस्यामेयत्वेन विकाराभावात् । 1 प्रजाव्यद्भ नष्टप्रज. । तथा पशुव्यृद्ध । एषामपि अभिर्मूति सौम्यस्य कुर्यात् (रु). 2 या पत्नी सयाजानामृच याज्यानुवाक्या ता. अभिन्यक्ता निषिक्ताभिशब्द। भवन्ति । तासु ऋक्षु देवताशब्देभ्य पर तत्समानया विभक्तया अभिशब्द प्रक्षेप्तव्य इत्यर्थ । यथा विश्वतत्सोमाने वृष्णियमित्यादिना उक्त पत्नीसंयाजो विक्रियते तस्य स्वयमनानेयत्वात् सर्वामियार्थत्वाच्च विकारस्य । तथा च ब्राह्मणम्-अभिव्यक्ता पत्नीसयाजानामृचस्यु । तेनामेय सर्वं भवति इति । ऋच इति वचनाञ्च नाध्वर्युनिगमेषु विकार आज्यभागानन्तरं व्युत्क्रमेण पत्नीसयाजनवचनमुत्तरसूत्रे सहोभयेषा विकल्पविधानार्थ ब्राह्मणानुसारार्थ च (रु) 3 ग्रथम् - ख. ग 4 अग्नित्व-ख ग 6 णर्चा 2 – ख ग