.स्वं. २९, सू. १२ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने सप्तम पटल 629 (भा) आमघाघेयिकाना वा दर्विहोमानां प्रत्याज्ञायः सामान्यात् । त्वन्नो अमे सत्वन्नो अम इति आभिवारुणस्य याज्यानुवाक्ये स चामीषोमयविकारः। अन्वाहार्य दक्षिणाः येषां वा स्थाने 2 सा दक्षिणा ॥ (स) ' यदरण्योस्समारूढो नश्येत् ॥ १२ ॥ ५० ॥ ।। ९१९० ।। 3 [आग्नपाधेयिकदर्विहोमप्रत्याम्नायत्वोपपत्ति.] (इ) आनयाघेयि - सामान्यात् –क्ऌप्त कार्ये वैकृतोपदेश इति दर्वि- होमसामान्यात्तत्कार्यकरा इति ॥ [अन्वाहार्य दक्षिणात्वे हेतुः] अन्वाहर्य दक्षिणाः – दक्षिणान्तरस्यानाम्नानात् ॥ - - येषां वा स्थाने सा दक्षिणा – स्थानपत्त्या तद्धर्मलाभात् || - तत्र 1 हार्य इति दक्षिणा 2 इति - ख ग हार्य दक्षिणा इति - घ 2 साऽस्य दक्षिणा -ङ 3 पुनराधेय प्रायश्चित्तिरिति वक्ष्यमाणेन सबन्ध समारूढेषु अग्निषु अराणनाशोऽग्निनाश यथोक्तमाश्वलायनेन, – समारूढेषु चाग्नि- नाश इति । स चारणिनाशो द्विविध शक्तिनाश स्वरूपनाशश्चेति । तत्र शक्तिनाशो मन्थनासामर्थ्यम् । स्वरूपनाशस्तु अवहरणदाहदूषणादिनाऽनेकविध । दूषणं मूत्रपुरीषायुपहति. यामधिकृत्य स्मर्यते ' उपहतानामुत्सर्ग ' इति । तदेव अरण्यो उभयविधनाशे पुनराधेयम् । तत्र शक्तिनाशेऽनुग्रहमाह भरद्वाज --' तत्र च लौकिकामावुपावरोहणं स्यात्' इते | स्वरूपनाशेऽप्याह बोधायन –अपहतानेर्नष्टारणी- कस्य च ब्रह्मौदनेनैव प्रतिपद्यते । सिद्धममयाधेयं काम नष्टेषु वाऽपहृतेषु नाद्रिये- तामयाघेयम् । आधानप्रभृति यजमान एवामयो भवन्ति तस्य प्राणो गार्हपत्योऽ- पानोऽन्वाहार्यपचनोव्यान आहवनीय काममुपावरुह्य जुहुयात्, इति । उत्तरारणेरुभयविधनाशेऽध्याह् तथा भरद्वाज. -अथ यद्युत्तरारणिस्समारूढा जीर्येत् नश्या आधारारण्या आहृत्येति विज्ञायत इति । आधत्येति-आधाराणि छित्वा एक खण्ड उत्तरारणित्वेनाइर्तव्य इत्यर्थ । एव चाधरारणिस्वरूप नाशे पुनरधेिय. मेवेत्युक्त भवति । आहवनीयादेस्तु समारूढस्य अरणिनाशे पुनर्योनित उत्पत्ति- मिच्छन्ति स्वयोनो विद्यमानेऽत्यन्तोत्सादायोगात् । अथासमारूढेऽनौ अरणिनाशे को विधि 2 किमत्र प्रष्ट 2 यथा ध्रियमाणोऽग्निरनुगतः अरणी अपेक्षिष्यतेः तदागल्यभावादाधानं भविष्यति । तथा छन्दोगपरिशिष्टे कात्यायन -- अरण्यो ,
पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति