पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २९, सू १३.] आपस्तम्बश्रोतसूत्रे पञ्चमप्रश्ने सप्तम. पटल (भा) एकस्या अरण्या नाशे क्षये च नष्ट ; उभयसाध्यत्वान्मन्थनस्य प्रजोत्पत्तिवत् ॥ (सू) यस्य वोभावनुगतावभिनिम्रोचेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चेितिः ||१३||५१||११९१॥ 1 एकस्या अ-नष्टः - अग्नि । क्षये चेति –मन्थनासमर्थायाम् || [2] प्राद्वितीयकालान्नाशे कर्तव्यम् ] उभयसा तिवत् – प्राद्वितीय होमकालात् वा नाशे पक्षहोमादि कृत्वा समारूढयोर्नाशेऽपि पुनराधानमेव || - 9 631 अरण्योरन्यतरस्य 1 वाकारस्समुच्चयार्थ, | उभा वित्यमयो परामर्श । अनुगतशब्दसमभिव्या- हारात् । तौ च गार्हपत्याहवनायौ प्राधान्यात् । निम्रोचन - अस्तमय । तदयमर्थ. - अग्निहोत्रार्थ विहृतं अजस्र वाऽऽहवनीयं गार्हपत्यं च उभौ अनुगतौ अभिसूर्यो निम्नांचेदुयाद्वा तस्य पुनराधेयं प्रायश्चित्तिरिति । केचित्पुन अत्राविहृते आहवनीये केवलगार्हपत्यानुगमनेऽपि उभयानुगतिमिच्छन्ति पश्चाद्धि स तर्हि गत इति लिङ्गेन अविहृतावस्थाया आहवनीयस्य गार्हपत्यानुप्रवेशानुगमनात् तत्तु न मृष्यामद्दे, कस्मात् ? उभावित्यनेन तावद्विरोवात् । न ह्येकोऽभिरुभाविति शक्यते व्यपदेष्टुम् ? न च यथोक्ताल्लिङ्गादाहवनीयस्य गार्हपत्यानुप्रवेशसिद्धि । तस्यान्यपरत्वात् । अस्तु वाऽ- नुप्रवेश तथाऽप्यनुप्रविष्टोऽयमानुमानिकोऽभि अश्वत्थस्थाभिवत् नामितद्भेदव्यवहार- भाजन भवितुमर्हति, प्रत्यक्षाभिगोचरत्वात्सर्वाभिव्यवहाराणाम् । यथा 'अन्तरामी तिष्ठन् यदि गार्हपत्याहवनीया वित्यादि ' किं च अनुगमनव्यवहारोऽपि प्रत्यक्षाभि- नाशे गोचर एव दृष्ट', यथा ' यदि पूर्वोऽनुगतः यदि गार्हपत्य आहवनीयोवाऽनुगच्छे- दित्यादि । तथा परोक्षव्यतिरे का दृष्ट ' यदरण्योस्समारूढो नश्येदिति' । किंचेंवं परो क्षस्याप्यभेरनुगमनमिच्छत सर्वत्राविहृतावस्थाया गार्हपत्यानुगता आहवनीयानुगति- प्रायश्चित्तमपि प्रसज्येत । तथा उभयसंसर्गात् ससर्गप्रायश्चित्त्याद्यपि प्रसञ्जयितव्यम् । तस्मात्सिद्ध न केवलगार्हपत्यानुगमनमुभयानुगमनमिति । न च उभयानुगता- वित्युभयाभावमात्र लक्षणेति युक्तम् । मुख्यार्थसभवे लक्षणाश्रयणस्यायुतत्वात् तस्मात् ध्रियमाणोभयविनाशविषयोऽय विधिरित्येव साप्रतम् । एव च अविहृता- वस्थाया केवलगाईपत्यानुगमने सतोरप्युदयास्तमययोरनुगतिप्रायश्चित्तमनुद्धर-णप्राय- चित्तं कृत्वा अग्निहोत्रहोमः कार्य इति सिद्धं भवति, 2 होमात् अर-ख ग, 6