पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ] आयुर्वेदप्रकाश । ९३ अथ षष्ठोऽध्यायः ।। अथ मन शिलाया नामलक्षणगुणा शोधन च । मनःशिला मनोगुप्ता मनोह्वा नागजिहेिका । नेपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ १ ॥ तालकयैव भेदोऽस्ति मनोह्वा च तदन्तरम् । तालकं त्वतिपीतं स्याद्भवेद्रक्ता मन:शिला ॥ २ ॥ मन:शिला त्रिधा प्रेोक्ता श्यामाङ्गी करवीरिका । द्विखण्डाख्या च तासा तु लक्षणानि निबोधत ॥ ३ ॥ श्यामा हिडुलवद्रक्ता किचित्पीताऽतिदीप्तिका । करवीरा रक्तवणी चूर्णरूपाऽतिभारयुक् ॥ ४ ॥ किचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा । त्रिविधासु च श्रेष्ठा स्यात्करवीरमन:शिला ॥ ५ ॥ अथ गुणा:— е с मनःशिला गुरुर्वेण्यों सरोष्णा लेखनी कटुः । तिक्ता स्रिग्धा विषश्वासकासभूतकफास्रनुत् ॥ ६ ॥ अशुद्धमनःशिलागुणा:मन:शिला मन्दबल करोति जन्तुं ध्रुवं शोधनमन्तरेण । मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥७॥ अथ मनःशिलाशोधनम्— पचेत्र्यहमजामूत्रे दोलायत्रे मनःशिलाम्। भावयेत्सप्तधा पित्तैरजाया: शुद्धिमृच्छतेि ।। ८ ।। अथ मतान्तरम् - जयन्तिकाद्रवे तैले दोलायचे मनःशिला । दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ।। ९ ।। मतान्तरम् अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ।। १० ।।