पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ आयुर्वेदीयग्रन्थमाला । [ अध्याय go — с སངྒ། भृङ्गागस्ल्यजयन्तीनामाद्रेकखरसेषु च । दोलायत्रेण संखिन्ना विशुध्यति मनःशिला ।। ११ ।। अथ मनशिलूसचपातनमुन्द्र చ్చే_చ్చె तालवच्च शिलासत्त्व ग्राह्यं तैरेव चौषधैः । रसएदूयाम्-अष्टमाशेन गुडगुग् ट्टेन सर्पिषा सह मदंयित्वा मूषाया दत्त्वाऽन्धयित्वा कोष्ठया ध्माता सत्त्वं मुञ्चेत् । इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेदप्रकाशे षष्ठोऽध्याय ॥ ६ ॥ अथ सप्तमोऽध्याय: । अथ स्नोतोञ्जनस्य नामभेद्गुणशोधनानि । अस्य ‘सुरमा' इति भाषाया नाम ॥ अञ्जनं वामन चापि कपोताञ्जनमित्यपि ।। १ ।। इति नामानि । स्रोतोञ्जनं तु द्विविध श्वेतकृष्णविभेदतः । तत्र स्रोतोञ्जनं कृष्ण, सौवीरं श्वेतमीरितम् ।। २ ।। अत्र केचित्पञ्चभेदान् पठन्ति स्रोतोञ्जनं च सौवीरमञ्जन च रसाञ्जनम् । नीलाञ्जन तदन्यञ्च पुष्पाञ्जनकमेव च ।। ३ ।। इति पश्चाञ्जनानि । अथैषां लक्षणम् वल्मीकशिखराकारं भिन्नमञ्जनसंनिभम् । घृष्टं तु गैरिकच्छायमेतत्स्रोतोञ्जनं स्मृतम् ।। ४ ।। स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । धूम्रवर्णाभमपि वा सौवीराञ्जनमुच्यते ॥ ५ ॥