पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૭ ] आयुवेदप्रकाश । વર્પ, अथोभयोर्गुणा:– स्रोतोञ्जनं स्मृतं खादु चक्षुष्यं कफपित्तनुत् । कषायँ लेखनं स्निग्धं ग्राहेि छर्दिवेिषापह्वम् ।। ६ ।। हिंमाक्ष्यास्रहृच्छीतं सौवीरमपि तादृशम् । किंतु द्वयोरञ्जनयो: श्रेष्ठ स्रोतोञ्जनं स्मृतम् ।। ७ ।। अथोभयो: शोधनम्— त्रिफलावारिणि खेद्य तद्वयं शुद्धिमृच्छति । भ्रङ्गराजरसे वाऽपि स्रोतःसौवीरकं शुचि ।। ८ ।। अथानयो: सत्त्वपातनम् । स्रोतःसौवीरयोः सत्त्वं गृह्णीयात्कुशलो भिषक् । मनःशिलासत्त्ववच तन्नेत्र्यं परमं मतम् ।। ९ ।। अथ रसाञ्जनेीत्पत्तिनामगुणा. कथ्यन्ते दार्वीकाथमजाक्षीरपादपक यदा घनम् । तदा रसाञ्जनं ख्यातं नेत्रयोः परमं हितम् । रसाञ्जनं तार्क्ष्यशैल रसगर्भ च तार्क्ष्यजम् ।। १० ।। इतेि नामानि \\ अथ गुणा: रसाञ्जन कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदन व्रणदोषहृत् ।। ११ ।। अथ नीलाञ्चनपुष्पाञ्जनलक्षणम् नीलाञ्जन नीलवर्णं स्निग्धं गुरुतरं स्मृतम् । पुष्पाञ्जनं रीतिक्रेिट्टमिति केचिद्वदन्ति हेि ।। १२ ।। सवीण्येतान्यञ्जनानि नेत्र्याणि परमं तथा । विषझानि विशेषाच्च हेिध्माध्मानहराणि च ॥ १३ ॥ अत्र रसाञ्जनं ‘रसवन्ती’ इति भाषायां प्रसिद्धम् ।