पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ आयुर्वेदीयग्रन्थमाला । [ अध्याय अर्थ नीलाञ्जनशुद्धि: नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् । देिनैकमातपे द्युद्धं भवेत्कार्येषु योजयेत् ।। १४ ।। अन्यञ्च अथवा भृङ्गजद्रावे खिन्नानि सकलान्यपि । अञ्जनानि विशुध्यन्ति सत्त्व तेषां शिलासमम् ।। १५ ।। मनःशिलावत्सत्त्व ग्राह्यमिल्यर्थः। षष्ठ कुलित्थाञ्जनमित्युक्तं राजनिघण्टौं कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका । कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥ अथ कुलित्थगुणा: कुलिथिका तु चक्षुष्या कषाया कटुका हिमा । वेिषविस्फोटकण्डूतिव्रणदोषनिबर्हृणी ।। १७ ।। इति वनकुलित्थाञ्जर्न, ‘चाकसू' इति पाश्चाल्या:, 'चिमड' इति भाषा । निस्तुषीकृतवनकुलित्था चूर्ण पटेन संशोध्य शिशूना नेत्ररोगे योजनीयम् । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे सप्तमोऽध्याय ॥ ७ ॥ अथाष्टमोऽध्यायः ।। अथ टङ्कणक्षारः । ‘सुहागा’ इति भाषा । तस्य नामलक्षणगुणशुद्धि:सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते । टङ्कणोऽग्नेिकरो रूक्ष्: कफघ्नो वातपित्तकृत् ।। १ ।। अशुद्धटङ्कणगुणा: अशुद्धष्टङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः । अतस्तं शोधयेदेव वह्नावुत्फुर्छितः शुचिः ।। २ ।।