पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

< ] आयुर्वेदप्रकाश । থও अर्थ गुणान्तरम् - टङ्कणो वह्निकृत्खर्णरूप्ययोः शोधन: परः । विषदोषहरो हृद्यो वातलेष्मविकारनुत् । ३ । अपरो नीलकण्ठाख्यष्टङ्कणः पूर्वटङ्कणात् । श्रेष्ठो नीलच्छविः किचिच्छोधनं तख पूर्ववत् ॥ ४ ॥ अथ राजावतैः । ‘लाजावर्त' (लाजवर्द) इति भाषा, ‘रेवटी’ इति च । राजावर्तः स्मृतः कैश्चिदुधैरुपरसे तथा । रत्नजातौ स्मृतः कैश्चिळक्ष्णं तस्य कथ्यते ।। ५ ।। राजावतीं द्विधा प्रोक्तः सरक्तो नीलिमाश्रित: । गुरु: श्रेष्ठः स कथितस्तदन्यो ह्रीन उच्यते ।। ६ ।। गुणा: राजावते: कटुस्तिक्तः शिशिरः पित्तनाशनः । प्रमेहनाश्क: श्रोक्तश्छर्दिहेिकानिवारणः ।। ७ ।। अथ शोधनमारणम् – गन्धाश्ममातुलुङ्गाम्लशृङ्गवेररसेन च । विशुध्यति म्रियते च पुटितो नात्र संशयः ।। ८ ।। अथ सत्त्वपातनम् मनःशिलाज्यसंमिश्रः पाच्य: पात्रे हेि लोहजे । पश्चाच महिषीक्षीरे सौभाग्यपश्चक्रान्वितः ।। ९ ।। एकीकृत्याथ पिण्डं तु कृत्वा मूषानिवेशितम् । ध्मातस्तु खदिराङ्गारैः सत्त्वं मुंचेति तद्गतम् ।। १० ।। अथ चुम्बक: । स तु पाषाणजाति: । उक्तं च कान्तलोहाश्मभेदाः स्युधुम्बकभ्रामकादय: । चुम्बक: कान्तपाषाणोऽवँस्कान्तो लोह्वकर्षकः ।। ११ ।।