पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

気< आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ गुणा: चुम्बकी लेखन: शीतो मेदोविषजरापहः । कण्डूपाण्डूदरक्षैण्यमोहमूच्छयरोगहुत् ॥ १२ ॥ अथास्य शोधनमुपयोगश्च सौभाञ्जनरसे साम्लवर्ग दोलागतो दिनम्। पाचितः शुध्यते कान्तपाषाणः पारदोपकृत् ॥ १३ ॥ अथ स्फटिका । ‘फिटिकडी'इति भाषा । तस्या नामलक्षणगुणशोधनानिस्फटिका च स्फटी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । दृढरङ्गा रङ्गदृढा रङ्गाङ्गा चापि कथ्यते ॥ १४ ॥ अथ गुणा: स्फटिका तु कषायोष्णा वातपित्तकफव्रणान् । नेिह्रन्ति श्वित्रवीसर्पीन् योनिसंकोचकारिणी ।। १५ ।। स्फटिका निर्मला श्वेता श्रेष्ठा खाच्छोधनं कचित् । न दृष्टं शास्त्रतो, लोका वह्नावुत्फुल्ठयन्ति हेि ।। १६ ।। अथ शङ्खस्य नामलक्षणगुणशोधनानि । शङ्खः समुद्रजः कम्बुः क्षुद्रः शङ्खनक: स्मृतः । द्विधा स दक्षिणावर्तो वामावर्त: शुभेतरः ।। १७ ।। दक्षिणावतेशङ्खस्तु पुण्ययोगादवाप्यते । यद्धृहे तिष्ठतेऽसौ वै स लक्ष्म्या भाजनं भवेत् ।। १८ ।। दक्षिणावतेश्ाङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः । ग्रहालक्ष्मीक्ष्यक्ष्वेडक्षामताक्ष्यामयापह्नः ।। १९ ।। अथान्य: शङ्ख:– शङ्खः क्षारो हिमो ग्राहीं ग्रहणीरोगनाशनः । नेत्रपुष्पहरो वण्यैस्तारुण्यपिटिकाप्रणुत् ॥ २० ॥