पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

く] आयुर्वेदप्रकाश । ९९ अशुद्धो गुणदो नैष शुद्धोऽम्लै: स गुणश्रदः । शङ्खश्च विमलः श्रेष्ठश्चन्द्रकान्तिसमप्रभ: ।। २१ ।। अम्लैः काञ्जिकादिभिर्दोलायत्रे खिन्नः सन् शुध्यतील्यर्थ । अथ खटिका “रवडी'इति भाषा । खटिका खटिनी चापि लेखनी च निगद्यते । खटी गौरखटी चेति द्विधाऽऽद्या मलेिना स्मृता ॥ २२ ॥ मृदुपाषाणसदृशी खटी शुभ्राऽधिका गुरुः । खटी दाहास्रनुच्छीता मधुरा विषशोथजित् ॥ २३ ॥ कफी नेत्रयो: पथ्र्या लेखने बालकोचिता । तद्वत्पाषाणखटिका व्रणपित्तास्रजिद्धिमा ॥ २४ ॥ लेपादेते गुणा प्रोक्ता भक्षिता मृत्तिकासमा । खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ २५ ॥ अथ गैरिकं “गेरु’ इति भाषा । गैरिकं रक्तधातुश्व गैरेयं गिरिजं तथा । द्विविध गैरिकं प्राहुः खर्ण सामान्यगैरिकम् ॥ २६ ॥ पंरैस्तृतीयमप्युक्त पाषाणाख्र्य हेि गैरिकम्। सुवर्णगेरिकं रक्ततरं शिष्ठं तु रक्तकम् ।। २७ ।। अथ गुणा:— गैरिकद्वितयं स्निग्धं मधुरं तुवरं हेिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ २८ ॥ अतिकण्डूहरं रूक्षं तथा प्रोक्तमुदर्दनुत् । पाषाणगैरिकं त्वन्यद्धिक्कालक्ष्मीविषापहम् ॥ २९ ॥ सुवर्णगै रिकं श्रेष्ठं गैरिकट्टितयात्परम् | गैरिकं किचिदाज्येन भृष्टं शुद्धं प्रजायते ॥ ३० ॥