पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० आयुर्वेदीयग्रन्थमाला । [अध्याय अथ कासीसम् । ततु भस्मवन्मृत्तिकाऽम्ला । कासीसं धातुकासीस पासुकासीसमेिल्यपि । तदेव किचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥ कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा । वातश्लेष्महरं केश्यं नेत्र्यं कण्डूवेिषप्रणुत् ।। ३२ ।। मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् । सकृद्भृङ्गाम्बुना खिन्नं कासीसं निमेल भवेत् ।। ३३ ।। इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवबेिरचिते आयु वेंदप्रकाशेऽष्टमोऽध्याय ॥ ८ ॥ `नथ नवमोऽध्यायः ।। अथ रसक: ! ‘खपरिया’ इति परिभाषा ॥ रसकं तुत्थभेद: खात्खर्परं चापि तत्स्मृतम् । ये गुणास्तुत्थके प्रेोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥ खर्परो द्विविधो ब्रेयो दढुंरः कारवेल्लकः । सदली दर्दुरः प्रोक्तो निर्दल: कारवेल्लकः ॥ २ ॥ सत्त्वपाते दर्दुर: खादौषधे कारवेल्लकः । अथ गुणा: रसक: सर्वमेहघ्नः कफपित्तवेिनाश्न: ।। ३ ।। नेत्ररोगक्षयम्नश्च लोहपारदरञ्जनः । अथान्यत्रापि खर्परं कटुकं क्षारं कषायं वामकं लघु ।। ४ ।। लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् । वेिषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ।। ५ ।।