पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ] आयुर्वेदप्रकाश ! १०१ अन्यच्च नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ । श्रेष्ठो सिद्धरसौ ख्यातौ देहृलेोहृक्रो परो ।। ६ ।। रसश्च रसकश्चोभौ येनाग्नेिसह्नौ कृतौ । देहृलोह्मयी सिद्धिर्दासी तस्य न संशयः ।। ७ ।। अशुद्धः खपेरः कुर्याद्वान्ति भ्रान्ति विशेषतः । तस्माच्छोध्यः प्रयत्नेन यावद्वान्तिविवर्जितः ।। ८ ।। अथ शोधनम् – नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धुवे । सप्ताहुं त्रिदिनं वाऽपि पकः शुध्यति खपेर: ।। ९ ।। अथ चूाग्भटः-- खपेरः परिसंतस्रः सस्वारं निमञ्जित: । वीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ १० ॥ अथान्यञ्च नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा । प्रतोष्य मञ्जित सम्यक् खपेरं परिशुध्यति ।। ११ ।। मतान्तरम् कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ।। १२ ।। अथान्यञ्च नरमूत्रे स्थितो मासं रसको रुञ्जयेद्भुवम् । शुद्धं ताम्रं रसं तारं युद्धं खणेप्रभं यथा ।। १३ ।। कचिदस्य भस्मप्रकार उक्तः— खपेरं पारदेनैव चूर्णयित्वा दिनं पचेत् । वालुकायन्त्रमध्यस्थे शोणे भैस् प्रजायते ।। १४ ।। १ ‘शोभन भस्म जायते’ ग ।