पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ आयुर्वेदीयग्रन्थमाला । [ अध्याय. अन्यञ्च खर्परं पत्तलं कृत्वा लवणान्तर्गतं पचेत् । जायते शोभनं भस्म सर्वरोगापहँ स्मृतम् ।। १५ ।। – с اجب लाक्षागुडासुरीपथ्याहरिद्रासजेटङ्कणैः । सम्यक्संमद्य तत्पक् गोदुग्धेन प्लुतं तथा ।। १६ ।। वृन्ताकमूषिकामये निरुध्य गुटिकाकृतिम् । टमात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ १७ ॥ सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोरमम् ।। इति ।। रसादिषु शोधयित्वैव देयम् । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वॆदप्रकाशे नवमोऽध्यायः ॥ ९ ॥ अथ द्वामोऽध्यायः ।। अथ कपर्दिका । ‘कौडी’ इति भाषा ॥ कपर्दिका कपर्दी च वराटी च वराटिका । वराटिका त्रिधा प्रोक्ता श्वेता शोणा त्रिधाऽपरा ॥ १ ॥ पीता सा चातिचक्षुष्या श्वेता शोणा हिमाऽत्रणा । असिता बिन्दुभिः श्वेतैलाञ्छिता रेखयाऽथवा ।। २ ।। बालग्रहहरी नानाकोतुकेषु च पूजिता । पीता गुल्मयुता पृष्ठे रसयोगेषु पूजिता ॥ ३ ॥ सार्धनिष्कप्रमाणाऽसौ श्रेष्ठा योगेषु युज्यते । निष्कप्रमाणा मध्या सा हीना पादोननिष्किका ॥ ४ ॥ अन्यत्रापि पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका । सार्धनिष्काभरा श्रेष्ठा निष्कभारा च मंयमा ॥ ५ ॥