पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ आयुर्वेदीयग्रन्थमाला । [अध्याय जरापसारकुछ्नं गर्भाशयविशोधूनम् । चक्षुष्यं च सरं श्रोक्तं रक्तबोलं भिषग्वरैः ।। १५ ।। इति रक्तबोलम् । श्यामबोलं तीक्ष्णगन्धं ददुकण्डूविषापहम् । कुष्ठापस्मारब्रध्नाशॉरक्तग्रन्थि च नाशयेत् ॥ १६ ॥ इति इयामबोलम् । अथ तृतीयं इयामबोलम् – अपरं मानुषं बोलं सद्योव्रणविषापहम् । भग्नास्थिसन्धिजननं त्रिदोषशमनं हेिमम् ।। १७ ।। धातुकान्तिवयःस्थैर्यबलौजोवृद्धिकारकम्। प्रमेहकुष्ठपिटिकासर्वत्रणविषापहम् ॥ १८ ॥ इतेि मोमियाई । अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः । हिमाचलैकदेशे तु कङ्गुष्ठमुपजायते । तत्रैक नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥ पीतप्रभं गुरु स्रिग्धं कडुष्ठं शिलया समम् । मृद्वतीव शलाकाभं सच्छिद्र नलिकाभिधम् ॥ २० ॥ रेणुकाख्यं तु कडुष्टुं श्यामपीतरजोन्वृितम् । लयक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ।। २१ ।। अथ नामानेि सद्योजातस्य करिणः शकृत्कङ्गुष्ठमुच्यते । यद्वा सद्यः प्रसूतस्य वाजिबालख विट् स्मृतम् ॥ २२ ॥