पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] आयुर्वेदप्रकाश । १०७ अथ कम्पिल्लक: । ‘कपिला’ इति लोके ॥ सौराष्ट्रदेशे संजातः कम्पिल्लस्तस्य लक्षणम् । इष्टकाचूर्णेसदृश, स विरेको हेि कथ्यते ॥ ३९ ॥ उक्त च राजनिघण्टौ– कम्पिल्लकोSथ रक्ताङ्गो रेची रेचनकस्तथा । रञ्जको लोहिताङ्गश्च कम्पिल्ठो रक्तचूर्णकः ।। ४० ।। इति नामानेि । अथ गुणा: कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । कफकासार्तिहारी च जन्तुकृमिह्ररो लघुः ।। ४१ ।। अथ गौरीपाषाण: । “सोमल' इति भाषा ॥ गौरीपाषाणक: प्रोक्तो द्विविध: श्वेतपीतकः । श्वेतः शङ्खसदृक्पीतो दाडिमाभ: प्रकीर्तितः ।। ४२ ।। श्वेतः कृत्रिमक: श्रोक्तः पीतः पवेतसंभवः । विषकृल्यकरौ तौ हि रसकर्मणि पूजितौ ॥ ४३ ॥ अथ नवसाद्र: ॥ नवसारः समाख्यातचूळिकालवणाभिध: । इष्ठकाघाकदह्ने जायते पाण्डुरप्रभ: ।। ४४ ।। मनुष्यसूकराणा च विष्टान्तः किट्टवद्धवेत्। क्षारेषु गणना तख खर्णशोधनक परः ॥ ४५ ॥ शङ्खद्रावरसे पूज्यो मुखकर्मणि पारदे । बिड्द्रव्योपयोगी च क्षारवत्तद्गुणाः स्मृताः ।। ४६ ।।