पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ आयुर्वेदीयग्रन्थमाला । [अध्यायः अथाग्निजार इति क्षारविशेषः । अब्धितीरेऽग्नेिनक्रस्य जरायु: गुष्कतां गतः । अग्निजारस्तु संप्रोक्तः स क्षारो जारणे हेितः ।। ४७ ।। अथ गिरिसिन्दूरम् । गिरिसिन्दूरकं यत्तु गिरौ पाषाणजं भवेत् । किचिद्धिडुलतुल्याभं रसबन्धे हितं मतम् । धातुवादेऽपि तत्पूज्यं नेत्ररोगञ्जमीरितम् ।। ४८ ।। अथ बोदारशूङ्गम् । ‘मुद्दारशिगी’ इति भाषा ॥ बीदारयूक ओकं द्विविधूं पीतपाण्डुरम्। सदलं निदंलं तस्य जनिगुंजेरमण्डले ॥ ४९ ॥ अबुदौख्यगिरेः पार्श्वे सीससत्त्वसमं परम् । केश्य पुरुषरोगघ्नं रञ्जनं रसबन्धकम् ।। ५० ।। उक्तं च – कम्पिल्लाश्वपलो गौरीपाषाणो नवसादरः । वह्निजारोऽथ सिन्दूरं साधारणरसाः स्मृताः ।। ५१ ।। अथैषा शोधनम् – साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना । त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ।। ५२ ।। महारसः स एव स्याद्भन्धाद्युपरसाः स्मृताः । गन्धको वज्रवैक्रान्तौ सिन्दूर बोलगैरिकम् ।। ५३ ।। समुद्रफेनः खटिकाद्वयं शम्बूकताक्ष्र्यजौ । कासीसं कान्तपाषाणो वराटी शुक्तिहेिङ्गुलाः ।। ५४ ।। कङ्कुष्ठं शङ्खभूनागौ टङ्कणं च शिलाजतु । उक्ता उपरसा एते द्रव्यनिर्णेयकारिभि: ।। ५५ ।।