पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १०९ अन्ये तु अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञात्वाऽष्टौ संहरेद्रसान् ।। ५६ ।। गन्धाश्मगैरिके काङ्कीकासीसालशिलाञ्जनम्। कङ्कुष्ठं चेत्युपरसा अष्टौ पारदकर्मणि ।। ५७ ।। इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु बेदप्रकाशे दशमोऽध्याय ॥ १० ॥ अथैकाद्ोऽध्यायः ।। अथ धातूपधातुनिर्णेय । सुवर्ण रूप्यक ताम्र वङ्गं जसदसीसकम् । लोहं चैते मताः सस् धातवो गिरिसंभवाः ।। १ ।। अथ धातुशब्दस्य निरुक्ति: वलीपलितखालेिल्यकाश्र्याबल्यजरामयान् । निवाये देहं दधति नृणा तद्धातवो मताः ।। २ ।। अथ सूर्यादिग्रहाणा धात्वाधिपल्य व्यवहारार्थमाह ताम्रतारारनागाश्च हेमबह्रौं च तीक्ष्णकम् । कास्यकं वर्तलोहं च धातवो नव ये स्मृताः ।। ३ ।। सूर्यादीनां ग्रह्राणा ते कथिता नामभि: क्रमात् । ताप्यं च विमला तुत्थं कांस्यं पित्तलकं तथा ।। ४ ।। सिन्दूरं शैलनिर्यासः स्मृताः सप्तोपधातव, । खखधातुगुणैस्तुल्याः क्रियद्भिरपरेऽपि च । गुणाः सन्ति विशेषेण द्रव्यान्तरसंयोगजाः।। ५ ।। अथ सुवणैख्योत्पत्तिनामलक्षणगुणइोधनमारणानि । पुरा निजाश्रमस्थाना सप्तर्षीणा जितात्मनाम् । पत्नीर्विलोक्य लावण्यलक्ष्मीः संपन्नयौवनाः ।। ६ ।।