पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० आयुर्वेदीयअन्थमाला । [अध्यायः कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः । पतित यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥ कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधत: । मेरुसानुपतञ्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥ दिव्यौषधिमणिस्पर्शादन्यद्भवति काञ्चनम् । एवं नानाविधानीह् जायन्ते काञ्चनानि वै ।। ९ ।। उक्तं च सुवर्ण पञ्चधा ख्यातं प्राकृतं सहृज परम् । वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ।। १० ।। ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् । ब्रह्मा येन सह्रोत्पन्न: सहृज हेम तत्स्मृतम् ।। ११ ।। वहिर्ज तु समाख्यातमेतानि दुर्लभानि हेि । मनु(१४)वर्ण लोकसिद्धं प्रायशः खनिजं हेि यन् ।। १२ ।। तत्खर्ण मारणार्थ तु ग्राह्य लक्षणलक्षितम् । वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु । विशुध्यति वरं किंचिद्वणेवृद्धिश्व जायते ॥ १३ ॥ यया कुम्भकारा: भाण्डानि रञ्जयित्वा पाचयन्ति सा वर्णमृत्तिकेत्युच्यते, ‘कावीस' इति भाषा । मतान्तरम् वल्मीकमृतिका धूमं गैरिकं चेष्टिका पूडु । इत्येता मृत्तिकाः पेश्च जम्बीरैरारनालकै: ।। १४ ।। पिष्ट्रा कण्टकवेध्यानि खर्णपत्राणि लेपयेत् । पुटेत्पृथुह्रसन्त्यां तु निर्वाते विंशदुत्पलैः ।। १५ ।। अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते । इलेवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥ १ मुनिशा सप्तवारम् ॥