पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदमकाश. । १११ मतान्तरम् - मृत्तिका: पश्च लुङ्गाम्लै: पञ्चवासरभाविताः । सभस्मलवणा हेम्नः शोधन्य: पुटपाकतः ।। १७ ।। अन्यञ्च सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्रिश्: । काञ्चुनाररसे शुद्धं काञ्चन जायते भृशम् ।। १८ ।। इतेि खणेशोधनम् । अत्र केचित् – इयमेव सुवर्णस्य शुद्धिनीन्या हेि विद्यते । तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥ अथ खर्णनामानि खर्ण सुवर्ण कनकं हैिरण्यं हेम ह्राटकम् । तपनीयं कलधौतं गाङ्गेयं भर्मे काञ्चनम् ।। २० ।। चामीकरं शातकुम्भ तथा कार्तखरं च तत् । जाम्बूनदं जातरूपं महारजतमेिल्यपि ।। २१ ।। अथ सदसत्सुवर्णलक्षणम् दाहे रतं सेितं छेदे निकषे कुडुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ।। २२ ।। यच्छ्रेतं कठिणं रूक्षं विवर्ण समल दलम् । दाहे छेदे सितं, श्वेतं कषे लयाज्यं लघु स्फुटम् ।। २३ ।। दले नाम यद्धनाहतं स्फुटति । अथ खर्णगुणा:खर्णं स्निग्धक्षायतिक्तमधुरं दोषत्रयध्वंसन। शीतं खादु रसायनं च रुचिकृचक्षुष्यमायुष्यदम् । प्रज्ञावीयेबलस्मृतिखरकरं कान्ति विधत्ते तनोः संधत्ते दुरितक्ष्यं श्रियमिदं धत्ते नृणा धारणात् ॥२४॥ दाहेऽतिरक्तमथ यत्ससेितं छिदाया काश्मीरकान्ति च विभाति निकाषपट्टे ।