पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ आयुर्वेदीयग्रन्थमाला । [अध्याय स्निग्धं च गौरवमुपैति च यत्तुलाया ग्राह्यं तदेव कनक मृदु रक्तपीतम् ॥ २५ ॥ अन्यञ्च सुवर्ण शीतल वृष्यं बल्यं गुरु रसायनम् । खादु तिक्तं च तुवरं पाके च खादु पिच्छिलम् ।। २६ ।। पवित्र बृंह्णं नेत्रयं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्करं कान्तिवाग्विद्युद्धिस्थिरत्वकृत् ।। २७ ।। विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित्। अपकमेव संशुद्धं, पकं तत्तु रसायनम् ।। २८ ।। अत्र पक्कापक्कप्रयोगविवेको रसपद्धल्याम् - यकं हेम रसायनं विदुरथापकं तु सद्योविष प्रध्वंसि क्षयेिर्ब्रहणं कृमिहृर वर्ण्य ज्वरिभ्यो हितम् । रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण स्ताम्र चापि विषातैिहृन्निगदितं वैद्यैपरक् ध्रुवम् ॥२९॥ दृश्यते च वाग्भटे विषभ्रुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ।। ३० ।। शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । न सञ्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ।। ३१ ।। अथापक्सुवर्णसेवने प्रकारद्वयमुक्तं तत्रान्तरे, तद्यथा अपक्क हेम संघृष्टं शिलायां जलयोगतः । द्रवरूपं तु तत्पेय मधुना गुणदायकम् ।। ३२ ॥ यद्वाऽपि तबका(वरका)ख्यं तु खणेपत्रं विचूर्णितम् । मधुना संगृर्हृीतं चेत्सद्यो हृन्ति विषादिकम् ।। ३३ ।। इत्यादि ज्ञेयम् ।