पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश' । ११३ अन्यच्च गुणविशेषादिकमाह सर्वेषधिप्रयोगेण व्याधयो न गता हेि ये । جی * * همه این ہیم ج؟ कमेभिः पञ्चभिश्चापि सुवर्ण तेषु योजयेत् ।। ३४ ।। शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा । अन्यै रसायनैश्चापि प्रयोगो हेग्न उत्तमः ॥ ३५ ॥ अथानुपानमाह मब्वामलकचूर्णं तु सुवर्णं चेति तत्रयम् । प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसकटात् ॥ ३६ ॥ मेधाकामस्तु वचया श्रीकाम: पद्मकेसरैः । शङ्खपुष्प्या वयोर्थी च वेिदाय च प्रजार्थक: ।। ३७ ।। अथाद्युद्धस्यासम्यड्मारितस्य गुणाः बलं च वीर्य हरते नराणा रोगव्रर्ज पोषयतीह काये । असैौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरण च कुर्यात्॥३८ असम्यडमारितं खर्ण बल वीर्य च नाशयेत् । करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ।। ३९ ।। अथ खणदिीना मात्राकथनम् – यववृध्द्या प्रयोक्तव्य हेम गुञ्जाष्ठकं, रवेि: । तारं तद्विगुणं, लोह्यमन्यत्तु त्रिगुणाधिकम् ।। ४० ।। गुञ्जामेका समारभ्य यावत्स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥ अथ खर्णादिमारणे कियती परिभाषेोच्यते, उतं च रसीभवन्ति लोहानि मृतानि सुरवन्दिते । वेिनिझन्ति जराव्याधीन् रसयुक्तानि किं पुनः ।। ४२ ।। लीह्वाना मारणं श्रेष्ठं सर्वेषां रसभस्मना । मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ।। ४३ ।।