पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अरिलोहेन लोहख मारणं दुर्गुणप्रदम् । रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।। ४४ ।। नेष्टो न्यूनाधिकः पाकः सुपाकं हेितमौषधम् । पुटनात् स्याल्लघुत्वं च शीघ्रर्वैयातिश्च दीपनम् । जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ।। ४५ ।। अन्यञ्च खर्णरूप्यवधे ज्ञेयं पुटं कुकुटकादिकम् । ताभ्रे काष्ठादिजो वह्निलेोहे गजपुटानि च ॥ ४६ ॥ अथ खणोदिधातूनां लोहृत्वेन व्यवहार इत्याह् रसपद्धतेिकार: रुक्मं रूप्यमयासि शुल्बमुरगं वङ्गं घनं वतेकं घोषं लोहृमेिदं त्रयं च चरमं नाग्नोपलोहं जगुः । अथैषा शोधनमाह्– तैले तक्रे काञ्चिकमूत्रयोतिलभवे तैले कुलित्थाम्भसि स्याच्छुद्धं परिवर्त्ये लोह्यमखिलं त्रिःसप्तधा वापितम् । अथ व्याख्या-रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्ततीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्र, उरगं सीसं, वङ्ग त्रपु, घनं कार्ख, व्रतेकं पित्तलजातिभेद:, घोषं पञ्चरसं, इदमखिलं लोहं, तत्र रुक्माद्दिष्टुं मुख्यं लोहुं, अन्यत्रयं घनादेि तूपलोहं जगुः रसज्ञा इत्यर्थे: । परिवल्ये द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं खणौदि योषान्तमू। मतान्तरम् सुवर्णरूप्यताम्राय:पत्राण्यग्नौ प्रतापयेत् । कृत्वा कण्टक्वेधीनेि दृष्ट्रा वह्निसमानि च ।। ४८ ।। १‘शीघ्र व्याघेश्च नाङ्कनम्’ उा ।