पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश, । ११५ निषिश्वेतप्ततप्तानि तैले तक्रे गवां जले । काञ्जिके च कुलित्थाना कषाये सम्धा पृथक् ।। ४९ ।। एव खणौदिलोहानां विशुद्धिः संप्रजायते । तीक्ष्णादिलोहकिट्ट तु संशोध्यं लोहवदुधैः ॥ ५० ॥ अथ नागवङ्गयोर्विशेषमाह्व नागवङ्गौ प्रतौ च गालितौ तौ निषेचयेत् । सच्छिद्रश्रावपिहिते हण्डिकाखे द्रवे शनैः । सप्तधैव वेिद्युद्धिः स्याद्रवेिदुग्धे च सप्तधा ।। ५१ ।। अन्यमतम् सर्वलोहानि तप्तानि कदलीमूलवारिणि । समधूऽभिनिषिक्तानि चुद्धिमायान्यथोचमाम् ॥ ५२ ॥ अथ खणमारणम् सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् । लोहानां सरसं भख सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥ शिलागन्धाकंदुग्धाक्ताः खर्णाद्याः सप्त धातवः । म्रियन्ते द्वादशपुटै: सल्यं गुरुवचो यथा ।। ५४ ।। इतेि सर्वधातुमारण सामान्येन । खर्णख द्विगुणं सूतमम्लेन सह मर्दयेत् । तद्भीलकसमं गन्धं निदध्यादधरोत्तरम् ।। ५५ ।। चूर्णीकृतं ततो रुद्वा शरावद्वयसंपुटे । सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ।। ५६ ।। त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ।। ५७ ।। इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम् शुद्धसूतसर्म खर्ण खल्वे कृत्वा तु गोलकम् । ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥