पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ आयुर्वेदीयग्रन्थमाला । [अध्याय• त्रिशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश । नेिरुत्थं हेमभस्म स्याद्भन्धो देयः पुन: पुन: ।। ५९ ।। अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः । जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ।। ६० ।। इतेि सरसं हेमभस्म । अथान्य: प्रकार: सुवर्णेऽग्नौ हूते मृतं दुद्यात्सीसं कुलाशुकम्। अम्लेन मर्दयेत्ततु चूर्णयित्वा शनैः शनैः ।। ६१ ।। पश्चात्तद्भोलकं कृत्वा तुल्यगन्धरजोगतम् । शरावसंपुटे स्थाप्य संधिरोधं विधाय च ॥ ६२ ॥ त्रिंशद्वनोपलै: प्रच्यात्सधैव पुनः पुनः । अम्लेन गोलकं कृत्वा पचेत्खर्णमृतिर्भवेत् ॥ ६३ ॥ अथान्य: प्रकार: रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् । हृिङ्गुद्दिङ्गुलसिन्दूश्रुिलूासाम्येन मेलुयेत् ॥ ६४ ॥ संमद्ये काञ्चनद्रावैर्दिनं कृत्वाऽथ गीलकम् । तं भाण्डस्य तले दत्त्वा भस्मना पूरयेदृढम् ॥ ६५ ॥ आग्ने प्रज्वालयेद्वार्ड द्युनिश खाङ्गशीतलम् । उद्धृत्य सावशेषं चेत्पुनर्देय पुटद्वयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ।। ६६ ।। इतेि हेमभस्म । अथान्यप्रकार: काञ्चनाररसैध्रेष्ठा सममृतकगन्धयोः । कञ्जलों हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥ काश्वनाररज:कल्कैर्मूषायुग्मं प्रकल्पयेत् ।। धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥