पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । ११७ निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् । वद्वि खरतर कुर्यादेवं दद्यात्पुटत्रयम् । निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ।। ६९ ।। इतेि हेमभस्म । काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् । ज्वालामुखी तथा हन्यात्तथा हन्ति मन:शिला । ७० । लाङ्गली कलिहारी । इति हेमभस्म । शिलासिन्दूरयोश्चूर्ण समयोरर्कदुग्धकैः । सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ।। ७१ ।। ततस्तु गालिते हेम्नि कल्कोऽयं दीयते सम । पुनर्धमेदतितरा यथा कल्को विलीयते ॥ ७२ ॥ एव वेलात्रय दद्यात्कल्कं हेममृतिर्भवेत् । इतेि रसवर्ज हेमभस्तः । अथ खर्णभस्परीक्षा जाम्बवाभ सुवर्णख भख प्राहुर्भिषग्वराः ॥ ७३ ॥ अथ सुवर्णद्रुतिः ।।– चूर्ण सुरेन्द्रगोपाना देवदालीफलद्रवैः । भावित सदृशं हेम करोति जलवडुतिम् ॥ ७४ ॥ मण्ड्रकाथिवसाटङ्कहयलालेन्द्रगोपकै: । अतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ।। ७५ ।। अथ रूपयस्योत्पत्तिनामलक्षणागुणद्मेोधनमारणानि । त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः । निरीक्ष्यामास शिवः क्रोधेन परिपूरितः ।। ७६ ।। ततस्तूल्का समभवत्तखैकस्माद्विलोचनात् । अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ।। ७७ ।। तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतङ्कवि ।