पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् । कृत्रिमं चापि भवति वङ्गादेः स्रुतयोगतः ।। ७८ ।। अन्ये तु— रूप्यं त्रिधा स्यात्सहृजं कृत्रिमं खनिसंभवम् । कैलासादिस्थितं यद्धि सहृजे रजतं हि तत् ।। ७९ ।। रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् । हेिमाचलादिभ्रूमौ च जायते खनिजं च तत् ।। ८० ।। मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् । गु स्रिग्धं मृदु श्वेतं दाहृल्छेदघनक्षमम् ॥ ८१ ॥ वणाढ्य चन्द्रवत्खच्छ रूप्य नवगुण शुभम् । कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ।। ८२ ।। गुणा: रूप्यं शीतं कषायाम्लं खादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखन वातपित्तजित् ॥ ८३ ॥ प्रमेहादिकरोगाश्व नाशयल्यचिराडुवम् । गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशनी ॥ ८४ ॥ अपकरजतं नैव संयोज्य खणेवद्भदे । पर्क् भस्ापि तत्रैव योज्यं ताम्रादिभस्वत् ॥ ८५ ॥ व्यवहाराभावत: किच श्वेतकुष्ठहर्र हेि तत् । इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादेिषु ।। ८६ ।। गुणग्रन्थेऽपि कचिन्– प्रोक्तकर्मसु संयोज्यं रजतं हेि विधानतः ।। इति ।। अथाशुद्धरजतमारणे दोषमाह तारं शरीरख करोति तापं विडून्धतां यच्छति शुक्रनाशम् । वीर्यं बलं हृन्ति तनोश्च पुष्टेि मद्दूागदान् पोषयति झछुद्धम् ।