पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ आयुर्वेदीयग्रन्थमाला । [ अध्याय पादर्श सूतर्क दत्त्वा याममम्लेन मर्दयेत्। तत उद्धृत्य पत्राणि लेपयेद्विगुणेन् च ।। ११५ ।। गन्धकेनाम्लघृष्ठेन तस्य कुयोच गोलकम् । तत: पिष्ट्रा च मीनाक्षी चाङ्गेरी वा पुनर्नवाम्।। ११६ ।। तत्कल्केन बहेिगॉलं लेपयेढूयङ्गुलोन्मितम् । धृत्वा तद्गोलकं भूाण्डे शरावेण च रोधयेत् ॥ ११७ ॥ वालुकाभि: श्रपूर्याथ विभूतिलवणाम्बुभिः। दत्त्वा भाण्डमुखे मुद्रा, ततश्रुह्या विपाचयेत् ॥ ११८ ॥ क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् । खाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥ यामैक गोलकं तच्च निक्षिपेत्सूरणोदरे । मृदा लेपस्तु कर्तव्यः सवेतोऽङ्गुलमात्रकः ।। १२० ।। पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् । वमनं च विरेकं च भ्रम कृममथारुचिम् । विदाहं खेदमुत्क्केदं न करोति कदाचन ॥ १२१ ॥ चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनर्गुदा पत्रशाकम्। इति ताम्रभस्म । अथान्य: प्रकार: ताम्रपादाशतः स्रुतं ताम्रतुल्यं तु गन्धकम् । मदंयेद्यामयुग्मं तु यावत्कञ्जलेिका भवेत् ॥ १२२ ॥ ता तु कन्यारसैः पिठ्ठा ताम्रपत्राणि लेपयेत्। संशुष्काणि ततस्तानि शेषकञ्जलेिकान्तरम् ॥ १२३ ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयो: कुर्यादम्बुभसविलेपनम् ।। १२४ ।। हण्डिका पटुनाऽऽपूर्य भखना वा गलावधि । पिधायू चुल्यामारोप्य वह्नि प्रज्वालयेद्दृढम् ।। १२५ ।। चतुर्यामं ततः खाङ्गशीतलं तत्समुद्धरेत् ।