पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ आयुर्वेदीयग्रन्थमाला । [अध्यायः अन्यञ्च गन्धाश्मना वा शिलया रविदुग्धेन लेपितम्। जम्भाम्भसा च पुटनैस्ताम्रं भसत्वमाप्नुयात् ।। १३२ ।। इति रसरहेित ताम्रभस्म मध्यमपक्षीयम् । अथ सोमनाथी ताम्रभस्म शुल्बतुल्येन सूतेन बलिना तत्समेन च । तदर्धाशेन तालेन शिलया च तदर्धया ॥ १३३ ॥ तदर्ध पारदादर्ध ताल, तालार्धा मन:शिला ॥ विधाय कञ्जली क्षुक्ष्ण भिन्नकञ्जलसंनिभाम्। यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥ १३४ ॥ कञ्जली ताम्रपत्राणि पर्यायेण विनिश्चिपेन्। प्रपचेद्यामपर्यन्तं खाङ्गशीतं समुद्धरेत् ।। १३५ ।। अथ गुणा: तत्तद्रोगह्वरानुपानसहेितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदर शूल च पाण्डु ज्वरम् । गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रह्णी ह्ररेद्भुवमिदं श्रीसोमनाथाभिधम्॥१३६ ताम्रभस्मलक्षणम् बर्हृिकण्ठप्रभं ताम्रं मृतं भवति केवलम् । पिष्टं चूर्णत्वमायाति सरसं चेत्सचन्द्रिकम् ।। १३७ ।। अथ ताम्रगुणाः ताम्रं कषायं मधुरं च तिक्तमम्ल च पाके कटु सारकं च । पित्तापहं श्लेष्महरं च शीतं तद्रोपणं स्याल्लघु लेखनं च १३८ पाण्डूदराशगरकुष्ठकासश्वासक्षयान् पीनसमम्लपित्तम्। शोफं कृमि शूलमपाकरोति प्राहुः परे वृंहणमल्पमेतत्॥१३९॥