पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ आयुर्वेदीयग्रन्थमाला । [ अध्याय वङ्गभस्मकरणं-अस्य शोधनं वेिशेषशोधनं च प्रागुक्तम् । शुद्धं वङ्गं क्षिपेद्धण्ड्या चुह्निस्थाया शनैः शनैः । तदधो ज्वालयेदग्नेि द्रुते वङ्गे क्षिपेत्पुनः ।। १४८ ।। अपामार्ग चतुर्थाशं चूर्ण संचालयेदिदम् । स्थूलाग्रया लोहदव्यां यावत्तद्भस जायते ॥ १४९ ॥ अत्र रह्स्यम्— चूर्णप्रक्षेपण कार्य खल्र्प खल्र्प मुहुर्मुहुः । यावद्भख भवेद्रङ्गं तावचूर्ण समापयेत् ॥ १५० ॥ तत: इारावपिहेिति स्थापयेत्तत्र तद्भिषक् । रजः सर्व ततोऽधलात्कुर्यादग्नि तु तीव्रकम् ।। १५१ ।। यावदङ्गारवर्णे तद्रजः समुपजायते । खाङ्गशीतं ततो ग्राह्यं मारणाय रजः शुभम् ।। १५२ ।। प्रकारान्तरं रसपद्धल्याम् वङ्गे घर्षणकाल एव भिषजः पीतायवानीरजो न्यखन्ति क्षणशः शिलाजतु तथा भसाप्यपामार्गजम्। क्षिावा रङ्गदलान्यरुष्कपिशितैभण्डे तु चिञ्चात्वचो भ्रूल्या संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्ान्यपि१५३ घर्षणकाले वक्ष्यमाणपलाशदण्डादिना घर्षणे , पीता हरिद्रा, यवानी यवासा, अनयो रजः; क्ष्णशः क्षणं क्षणं यावद् पिष्टीभवति तावद्भिषजो न्यस्यन्तिः ततो भस्मनः शुद्ध्यर्थे। शिलाजर्नु क्षिपति, शिलाजतुरत्र श्वेतो ग्राह्म: सोरकाररुय:; तथेति अपामार्गज भस घर्षणकाले वा क्षिपति । अत्र भस्मीकृत्य तदुपरि शरावं दत्त्वा तीव्रतर वद्वि कृत्वा यथाऽङ्गारवर्ण भवति तथा कर्तव्यम् । पश्चात्खाङ्गशीर्त ग्राह्यम् । मारणार्थ तद्भस्म भवति । प्रकारान्तरं-क्षिप्वेति । सँस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं, एवं क्रमेण । पुटं गजपुटम् ।