पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अथ रसदोषाः ।

नागो वङ्गो मलो वह्निश्वापल्यं च वेिष गिरिः ।
असह्याग्नेिर्मह्रादोषा निसर्गात्पारदे स्थिताः ।। १६ ।।
जाडयगण्डौं तनौ नागात् कुष्ठ वङ्गादुजो मलात् ।
दाहो वहेवीर्यनाशश्वापल्यान्मरणं विषात् ॥ १७ ॥
गिरेः स्फोटोऽप्यसहृतादोषान्मोहोऽभिजायते ।
वेिष वह्निर्मलश्चेति दोषा मुख्यतमास्त्रयः ।। १८ ।।
रसे मरणसंतापमूच्छना हेतवः क्रमात् ।
योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥१९॥
औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कंचुकाः ।
भूमिजो गिरिजो वाजों द्वौ च द्वौ नागवङ्गजौ ॥ २० ॥
द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ।
भूमिजः कुरुते कुष्ठ गिरिजो जाड्यमेव च ।। २१ ॥
वारिजो वातसंघात दोषाढ्यौ नागवङ्गजौ ।
अतो दोषनिवृत्त्यर्थं रसः शोध्यः प्रयत्नतः ।। २२ ।।
शोधितो रसराजस्तु सुधातुल्यफलप्रदः ।
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ २३ ॥
साक्षादमृतमप्येष दोषयुक्ती रसो विषम् ।
तस्माद्दोषनिवृत्त्यर्थं सह्रायैर्निपुणेभैिषक् ।। २४ ।।
सर्वोपस्करमादाय रसकर्म समाचरेत् ।
रसो ग्राह्यः शुभे काले पलाना शतमात्रकम् ॥ २५ ॥
पञ्चाशत्पञ्चर्विशद्वा दश पंचैकमेव च ।
पलादूने न कर्तव्यो रसे संस्कार उत्तमः ।। २६ ।।
बहुप्रयाससाध्यत्वात्फल खल्र्प यतो भवेत्।
संपूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ॥ २७ ॥