पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १२९ तालेन दशूमाशेन् याममेकं ततः पुटेन् । एवं दशपुटैः पकं वङ्गं भवति मारितम् । १७२ ।। इति दशपुटि वङ्गभस्म । अथ यशदस्य नामलक्षणगुणमारणानि । ‘जस्ता’ इति भाषा ॥ जसर्द रङ्गसदृश रीतिहेतुश्व तन्मतम्। उक्तं च— जशदं गिरिज तस्य दोषा: शोधनमारणे । वङ्गयेव हेि बोद्धव्या गुणास्तु श्रवदाम्यहम् ।। १७३ ।। गुणा: जसदं तुवरं तिक्तं शीतल कफपित्तहृत् । चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ १७४ ।। अथ नागस्योत्पत्तिनामलक्षणगुणशोधनमारणानि । दृष्ट्रा भोगिसुता रम्या वासुकिस्तु मुमोच यत्। वीर्य जातस्ततो नागः सवेरोगापहो नृणाम् ।। १७५ ।। नागः सीसं च वध्रं च योगेष्ठं नागनामकम् । नागनामकं भुजङ्गादिपयोयवाचकमेिल्यर्थः । सीसं रङ्गगुणं ज्ञेयं विशेषान्मेह्रनाशनम् ।। १७६ ।। अन्यञ्च जाग: समीरकफलिकिरहन्ता सर्वेप्रमेहवनराजिकृपीटयोनिः । उष्ण: सरो रजतरञ्जनक्रुद्धणाशॉ गुल्मग्रह्ण्यतिसृतिक्ष्णद्ागुमाली ।। १७७ ।। नागस्तु नागशततुल्यबलं ददाति व्याधि वेिनाशयति जीवनमातनोति ।