पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ आयुर्वेदीयग्रन्थमाला । [अध्याय मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते । गजवल्यादेि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥ अन्यच्च मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः । खङ्गादिशस्त्रभेदा: स्यु:, कान्तलोहं तु दुर्लभम् ।। २०१ ।। मुण्डाच्छतगुण तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् । तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ।। २०२ ।। “मारणाय' इति शेष: | अर्थ तीक्षणकान्तयोवेिंशेषलक्षणानि– कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् । तीक्ष्णलोह् तदुद्दिष्टं मारणायोत्तमं विदुः ।। २०३ ।। अन्यञ्च क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मंर्दिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ।। २०४ ।। अस्य गुणा: लोह साराह्वर्य हन्याद्धहणीमतिसारकम् । अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् । छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ।। २०५ ।। अर्थ कान्तलक्षणगुणा: यत्पात्रे न प्रसरति जले तैलबिन्दु: प्रतसे हेिङ्गुर्गन्धं लयजति च निज तिक्तता निम्बकल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भ्रूमिं कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहुं तदुक्तम्॥२०६ कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ । शूलोदरार्शःप्लीहानमामवातं भगन्दरम् । २०७ ।। अम्लपित्तं यकृचापि शिरोरोगं ह्ररेद्भुवम् । १ ‘लेपिते’ या ।