पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १३५ बलं वीर्यं वपुःपुष्टेि कुरुतेऽग्नेि विवर्धयेत् । सवोन् गदान् विजयते कान्तलोहं न संशयः ।। २०८ ।। अथ सामान्यगुणा: लोहँ शीतं सरं तिक्त मधुरं तुवरं गुरु । रूक्षं वयखे चक्षुष्यं लेखन वातल, जयेत् ।। २०९ ।। कफं पित्तं गरं शूलं शोफार्शै:प्लीहृपाण्डुता: । मेदोमेहृकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ।। २१० ।। अथलोहदोषा: गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अग्मदोषः सदुर्गन्धो दोषाः सायसः स्मृताः ।। २११ ।। अथाशुद्धगुणाः षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरी च । नानारुजाना च तथा प्रकोप करोति हृल्लासमशुद्धलोहम्२१२ अथासम्यङ्ारितस्य गुणा:जीवहारि मदकारेि चायसं देहशूलकृदसस्कृतं धुवम् । पाटव न तनुते शरीरके दारुणा हृदि रुजा च यच्छति २१३ अर्थ केचित्– न रसेन विना लोह न लोह चाभ्रक विना । एकत्वेन शरीरस्य बन्धो भवति देहेिन: ।। २१४ ।। पारदेन विना लोहं यः करोति पुमानिह । उदरे तस्य किट्टानि जायन्ते नात्र संशय: ।। २१५ ।। वस्तुतस्तु प्राशस्ल्याय रसयोगो रसाभ्रयोगश्च । अथानुपानमेतस्य— त्रिफलामधुसंयुक्त सवैरोगेषु योजयेन्। पथ्याशिना लोहभख यथोक्तगुणदं भवेत् ॥ २१६ ॥