पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १३७ शस्रकृल्लोहकाराणा गृहे तद्भहुल भवेत् ॥ २२५ ॥ तचूर्ण तु समानीय सुधौतं निर्मल शुचि । युक्त्या सशोध्य विधिना मारण तस्य कारयेत् ॥ २२६ ॥ युक्तिस्तु दृढशरावे वा लोहजशरावे वा तचूर्ण सस्थाप्य, कोकिलै: शुल्कानीतैध्र्मान्वा लोहकारादिभिध्र्माययित्वा वा भस्त्रावातेन, अग्नेिसमानं दृष्ट्रा, संदंशेन निष्कास्य, तन्मध्ये तैलतक्रादि देय, एवं सुकरं भवति । तैलतक्रादिषु चूर्णं निक्षिप्त चेत्पुनः पुनस्तस्रान्निष्कासने महत्प्रयास इति । एर्व यथाबुद्धिवैभवं शोधयेत् । पुनरन्योऽपि चूर्णप्रकारः-- सशुद्धं लोहजं पत्र ततं ततं वराजले । गोजले वा मुहुः क्षिप्तः क्षिप्रं चूर्णत्वमाप्नुयात् ।। २२७ ।। पुनरन्योऽपि चूर्णप्रकारः स्थूलाभ्यः सिकताभ्योऽपि चुम्बकेन इानैर्मुहुः । लोहॆच्चूर्णं हेि गृह्णन्ति सुंसूक्ष्मं मारणे हेितम् ।। २२८ ।। अथ विशेषशोधनम्— तैलतक्रादिसंशुद्ध लोहं शोध्य विशेषतः । श्रेोक्तदोषविनाशाय तदिदानीमिहोच्यते ।। २२९ ।। त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । तत्काथे पादशेषे तु लोह्रस्य पलपञ्चकम् ।। २३० ।। कृत्वा पत्राणि तप्तानि सप्तवार्र निषेचयेत् । एव प्रलीयते दोषो गिरिजो लोह्रसंभवः ।। २३१ ।। अथात्र कान्तलोहे विशेष:— शश्ारतेन संलिप्तं केिवाऽऽर्केपयसाऽऽयसम् । दलं हुताशने ध्मातं सितं त्रैफलवारिणि ॥ त्रिश कान्तस्य संशुद्धिरित्येवं परमा भवेत् ।। २३२ ।। १ ‘तत्सूक्ष्म’ ग ।