पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

くきく आयुर्वेदीयग्रन्थमाला । [अध्यायः न्यत्रापि तत् क्षाराम्लसयुक्त शश्रतेन भावितम् । कान्तलोह भवेच्छुद्ध सर्वदोषविवर्जितम् ॥ २३३ ॥ अत्रान्योऽपि विशेष: तत्तश्याव्युपयुक्तानामौषधानां जलेऽयसः । प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ।। २३४ ।। ततः सामान्यविशेषशोधनत. । अन्यच्च सर्वाभावे निषेक्तव्य क्षीरतैलाज्यगोजले । शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥ इति विशेषशोधनम् । अथ भस्मप्रकारः संशुद्ध लोहचूर्ण तु समानीय भिषग्वरः । अपकतिन्दुकफलरसैः समर्दयेद्दिनम् ।। २३६ ।। त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च । पुटानि त्रीणि दत्तानि सल्यं वारितरं भवेत् ।। २३७ ।। तत्तद्रोगानुपानेन सर्वरोगहर भवेत्। लाला अनूपरायेण उपदिष्ठं न संशयः ।। २३८ ।। शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । द्वयोः सम सारचूर्ण मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥ यामद्वयं तस्य गोल संवेद्यैरण्डजैर्दलैः । ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥ संमुद्य वदन तस्य मृदा संशोष्य तत्पुनः । त्रिदिनं धान्यराशिस्थ तत उद्धृत्य मर्दयेत् ।। २४१ ।। रजस्तद्वस्रगलितं नीरे तरतेि हँसवत् । सोमामृताभिदमेिदं लोहभस्म प्रकीर्तितम् ।। २४२ ।। इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धल्या सूर्यतापि लोहभस्त्र उक्तम्-